Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

शिवभारत अध्याय सहावा

शिवभारत अध्याय सहावा
, सोमवार, 26 ऑगस्ट 2024 (15:13 IST)
कवीन्द्र उवाच ॥
अथो विविक्षुस्तत्कुक्षिं स्वयं योगेश्वरो हरिः ।
शाहपत्न्यै प्रसन्नात्मा स्वमात्मानमदर्शयत् ॥१॥
सैकदा सुतनुः स्वप्ने दिविषद्वृंदवन्दितम् ।
शंखचक्रगदापद्मपाणिं शामं चतुर्भुजम् ॥२॥
श्रीवत्सवक्षसं कण्ठविनिवेशितकौस्तुभम् ।
वैजयन्तीकृतावासं पीतकौशेयवाससम् ॥३॥
विउलसद्रत्नमुकुटं स्फुरन्मकरकुण्डलम् ।
मन्दस्मितोल्लसद्गण्डं प्रसन्नमुखमण्डलम् ॥४॥
पुण्डरीकायतदृशं सुनसं शुभलक्षणम् ।
प्रतिप्रतीकलावण्यलीलानिलयमद्भुतम् ॥५॥
समाश्लिष्टं कमलया शोभितं वनमालया ।
सर्वदेवमयं देवं सर्वाभरणभूषितम् ॥६॥
वज्रेरखाध्वजच्छत्रचिध्नितांघ्रिसरोरुहम् ।
बाललीलाधरं देवी स्वांकस्थितमलोकत ॥७॥
ततोऽचिरेण सा गर्भे पत्नी शाहमहीपतेः ।
प्रभविष्णुं महाविष्णुमंशमूर्तिमदीधरत् ॥८॥
महता महसा तेन निजगर्भगतेन सा ।
व्यभाद्विभाकरेणेव शरदंभोदमण्डली ॥९॥
तं वै तेजोमयं गर्भं तदा विभ्राणया तया ।
यादवेंद्रस्य सुतया भूषितं बत भूतलम् ॥१०॥
अथोद्यद्द्योहृदरसा गर्भभारभरालसा ।
अमंस्त पृथुलश्रोणीभारमाभरणानि सा ॥११॥
तदाननं पाण्डिमानं दधानमतुलं तदा ।
उपाहसत् प्रसादेन शारदं शशिमण्डलम् ॥१२॥
न तत् चित्रं श्रिता यत्सा सुतनुस्तनुगौरवम् ।
देवो जगद्गुरुर्यस्याः साक्षात्कुक्षिमवीविशत् ॥१३॥
परिपाण्डुमुखीं सत्ववतीमथ सखीजनः ।
तामज्ञासीत्पार्श्वसेवी देवीमन्यादृशीमिव ॥१४॥
अथाध्यासनमद्रीणां द्विपानां द्वीपिनां तथा ।
स्वर्णसिंहासने स्थैर्यं सितच्छत्रतलेऽपि च ॥१५॥
केतनोन्नमनंचोच्चैश्चरुचामरवीजनम् ।
श्रुतिर्दुन्दुभिशब्दानां कृतिः सङ्गरकर्मणाम् ॥१६॥
धारणं काण्डकोदण्डशक्तिनिस्त्रिंशवर्मणाम् ।
प्रसाधनं पर्वतानां साधनं विजयश्रिताम् ॥१७॥
महादानेष्वभिरतिर्धर्मस्य स्थापने मतिः ।
समभूवन्नमून्यस्यां दोहदानि दिने दिने ॥१८॥
ततः कुमारभृत्यासु कुशलाभिरहर्निशम् ।
कुलशील समृद्धाभिर्वृद्धाभिः समुपासिते ॥१९॥
चित्तानुसारिभिर्नित्यमत्यर्थं हितकारिभिः ।
जनैः सहचरीणां च लब्धवर्णैर्निषेविते ॥२०॥
गर्बिंणीपरिचर्यायां प्रौढैः पीयूषपाणिभिः ।
आप्तैर्भिषग्भिरश्रान्तमधिदेहलि संश्रिते ॥२१॥
सुधालेपोल्लसद्भित्तिनिर्मित स्वस्तिकाभ्दुते ।
स्फुरद्वितानपर्यन्त लुलन्मौक्तिक जालके ॥२२॥
प्रत्यग्रपल्लवोपेते विकीर्णश्वेतसर्षपे ।
सद्यः सलिलसम्पूर्णसुवर्णकलशान्विते ॥२३॥
द्वारदेशोभयप्रान्तलिखितोचितदैवते ।
परितः स्थापितानेकदीप्तमंगलदीपके ॥२४॥
विहितौपयिकद्रव्यसंग्रहे सूतिकागृहे ।
दिव्य - तेजोमयी देवी दिव्यरूपा व्यराजत ॥२५॥
भूबाणप्राणचन्द्राद्वैः सम्मिते शालिवाहने ।
शके संवत्सरे शुक्ले प्रवृत्तेचोत्तरायणे ॥२६॥
शिशिरर्तौ वर्तमाने प्रशस्ते मासि फाल्गुने ।
कृष्णपक्षे तृतीयायां निशि लग्ने सुशोभने ॥२७॥
अनुकूलतरैस्तुंगसंश्रयैः पञ्चभिर्ग्रहैः ।
व्यंजिताशेषजगतीस्थिरसाम्राज्यवैभवम् ॥२८॥
अपारलावण्यमयं स्वर्णवर्णमनामयः ।
कमनीयतमग्रीवमुन्नतस्कन्धमण्डलम् ॥२९॥
अलिकान्तमिलत्कान्तकुन्तलाग्रविराजितम् ।
सरोजसुन्दरदृशं नवकिंशुकनासिकम् ॥३०॥
सहजस्मेरवदनं घनगंभीरनिस्वनम् ।
महोरस्कं महाबाहुं सुषुवे साभ्दुतं सुतम् ॥३१॥
तदा मुदा मानुषाणां सुराणां च सहस्रशः ।
समं दुन्दुभयस्तस्य नादेन नदतोऽभवन् ॥३२॥
वादित्राण्यप्यवाद्यन्त विविधानि गृहे गृहे ।
प्रसीदन्ति स्म हरितः समस्ताः सरितस्तथा ॥३३॥
शनैः शनैस्तथा वाता वाताः सुरभिशीतलाः ।
हुतं हविरुपादत्त प्रसन्नश्च हुताशनः ॥३४॥
श्रुतिस्मृतिर्धृतिर्मेधाः कान्तिः शान्तिक्षमादया ।
नीतिः प्रीतिः कृतिः कीर्तिः सिद्धिः श्रीश्च सरस्वती ॥३५॥
तुष्टिः पुष्टिश्च शक्तिश्च ह्रीश्च विद्या च सन्नतिः ।
तं देवं देवता एताः समेताः पर्यवारयन् ॥३६॥
योद्धुमद्धापठानेन दर्याखानेन मानिता ।
शाहराजे महाराजे प्रयाते विषयान्तरम् ॥३७॥
अनुग्रहाय देवानां दैत्यानां निग्रहाय च ।
प्रभुःस जगतां प्रादुरभूद् भृशबलान्वये ॥३८॥
अतोऽजस्यापि जातस्य जातकर्म तदंजसा ।
व्यधीयत विधिज्ञेन यथाविहि पुरोधसा ॥३९॥
यः स्वयं सर्वलोकस्य स्थित्यर्थमभवद्विभुः ।
सूक्तैः सूक्तविदस्तस्याप्याचरन् स्वस्तिवाचनम् ॥४०॥
तदा तत्रावतीर्णस्य विष्णोर्मानुषवर्ष्मणः ।
तेजोभरेण महता निशापि दिवसायिता ॥४१॥
आदित्या वसवो विश्वे रुद्राश्च समरुद्गणाः ।
यक्षाः साध्याश्च गन्धर्वास्तथा विद्याधरा अपि ॥४२॥
नन्दिनी प्रमुखा गावो नागाश्चैरावतादयः ।
सुरर्षयो नारदाद्याः संभूयाप्सरसस्तथा ॥४३॥
इन्द्रोऽग्निर्धमराजश्च नैरृतश्चजलेश्वरः ।
पृषदश्वो धनेशश्च महेशश्च दिगीश्वराः ॥४४॥
अष्टाविमेऽश्विनौ देवौ सूर्याचन्द्रमसौ तथा ।
अन्येऽपि च सनक्षत्रा ग्रहाः सुभगविग्रहाः ॥४५॥
घटीमुहूर्ताहोरात्रपक्षमासर्तुवत्सराः ।
युगानिदिव्यादिव्यानि तथा मन्वन्तराणि च ॥४६॥
भुवो भारमपाकर्तुमवतीर्णे जगत्पातौ ।
संनिधाय स्वयं तत्र स्वस्तिवाचनमाचरन् ॥४७॥
गणेशं जन्मदां षष्ठीं देवीं जीवन्तिकामपि ।
स्कन्दं नारायणं वंशं बलदेवं च लांगलम् ॥४८॥
शरासनं शरान् खङ्गं विविधान्यायुधानि च ।
तत्तन्मन्त्रैः समभ्यर्च्य सूतिकागृहमन्तरा ॥४९॥
प्रयतः पंचमे षष्ठेऽप्यष्टमे नवमेऽहनि ।
रक्षन्तु बालमित्युक्त्वा प्रणम्य च पुरोहितः ॥५०॥
क्षेत्रपालाय भूतेभ्यो राक्षसेभ्यो गृहाद्बहिः ।
बलीनदाद्योगिनीभ्यो दिक्पालेभ्योऽप्यनेकधा ॥५१॥
त्रिजगज्जागरूकस्य जाते षष्ठी प्रजागरे ।
जने जनिविशेषेण दशमेह्नि महात्मनः ॥५२॥
ताम्रपर्ण्यथ कावेरी तुंगभद्रा मलापहा ।
कृष्णा ककुद्मती वेणा नीरा भीमरथी तथा ॥५३॥
गोदावरी च गायत्री प्रवरा वंजुला पुनः ।
पूर्णा पयोष्णी तापी च नर्मदा च महानदी ॥५४॥
क्षिप्रा चर्मण्वती मद्रा यमुना वेत्रवत्त्यपि ।
भागीरथी चन्द्रभागा गोमती गण्डकी तथा ॥५५॥
इरावती विपाशा च शतद्रुश्च सरस्वती ।
वितस्ता सरयूश्चापि तमसाच वधूसरा ॥५६॥
सिन्धघर्घरशोणाद्यैर्नदौर्निश्रेयसःप्रदैः ।
पुष्कराद्यैः सरोभिश्च सागरैश्च समन्विताः ॥५७॥
अलक्षितेन रूपेण नद्यः पुण्यतमा इमाः ।
तदा तस्या भिषेकाय सोत्सवाः समुपागमन ॥५८॥
देवसेना शची स्वाहा समृद्धिः सर्व मंगळा ।
आदितिर्विनता संज्ञा सावित्री चाप्यरुन्धती ॥५९॥
तां युक्तां तत्र बालेन तेनाप्रतिममूर्तिना ।
प्रसूतिकामस्नपयन् मिलिताः कुलयोषितः ॥६०॥
जननीं रजनीरागरंजितांशुकधारिणीम् ।
अलंकारवतीमंकविनिवेशितबालकाम् ॥६१॥
दिनश्रियमिवोदारां नवोदितदिवाकराम् ।
नीराजनाभिः सुभगाः सुभ्रुवः समभावयन् ॥६२॥
यतःशिवगिरेंर्मूर्ध्नि जातःस पुरुषोत्तमः ।
ततः प्रसिद्धा लोकेऽस्य शिव इत्याभिधाऽभवत् ॥६३॥
करिष्यत्येष बलवानिह कर्मातिमानुषम् ।
म्लेच्छान्निहत्य महतीं कीएर्तिं विस्तारयिष्यति ॥६४॥
जित्वावाच्यांश्च पाश्चात्यान् प्राच्यांश्च भुजतेजसा ।
तथोदीत्यांश्च विजयी स्वराज्यं संविधास्यति ॥६५॥
साहसी सागरमपि वश्यतामानयिष्यति ।
बली बलैर्दिगन्तेभ्यो वलीनानाययिष्यति ॥६६॥
प्रभावी गिरिदुर्गाणि वनदुर्गाणिचाप्ययम् ।
तथा सलिलदुर्गाणि स्थलदुर्गाणि गोप्स्याति ॥६७॥
बत दिल्लीपतेर्मूध्रिप्रतापेन तपन्नसम् ।
निजं चरणमाधाय जगदाज्ञापयिष्यति ॥६८॥
सुदुर्गमेषु मार्गेषु गहनेषु गिरिष्वपि ।
सरित्सुच समुद्रेषु यस्याप्रतिहता गतिः ॥६९॥
स एष पाण्ड्यद्रविड लाटकर्णाटकेरळान् ।
करहाटवैराटान्ध्रमालवाभीरगुर्जरान् ॥७०॥
आर्यावर्ताश्च दुर्म्लेंच्छकृतावर्त्माननेकशः ।
कुरुजांगलसौवीरधन्वसौराष्टकोसलान् ॥७१॥
वाह्लीकमद्रगान्धारत्रिगर्तानर्तसैन्धवान् ।
कलिंगकामरोपांगवंगकाम्बोजकेकयान् ॥७२॥
पारसीकान् शिबीन् शाल्वान्पुलिंदारदृबर्बरान् ।
काश्मीरमत्स्यमगधविदेहोत्कलटंकणान् ॥७३॥
किरातकाशिपाञ्चालचेदीनपि च कुन्तलान् ।
खशांश्चशूरसेनांश्च हूणान् हैमवतानपि ॥७४॥
उंड्रान्पुंड्रान् ललित्थांश्च महितेन स्वतेजसा ।
चिरजीवी विनिर्जित्य महाराजो भविष्यति ॥७५॥
यथा पृथुरभूत्पूर्वं यथा राजा पुरूरवाः ।
अम्बरीषोऽपि च यथा शिबिश्चौशीनरो यथा ॥७६॥
यथा जनिष्ट मांधाता यथा च निषधाधिपः ।
यथा बभूव भरतो यथा भूपो भगीरथः ॥७७॥
हरिश्चन्द्रः स च यथा रामो दाशरथिर्यथा ।
यथा च मिथिलाधीशो ययातिर्नहुषो यथा ॥७८॥
यथा धर्मधनोराजा धर्मराजो युधिष्ठिरः ।
भविष्यति तथैवायं शाहराजसुतः शिवः ॥७९॥
मध्येसभं दैवविदः सर्वसिद्धान्तपारगाः ।
एवमस्य कुमारस्य जन्मवेलामवविदन् ॥८०॥
प्रचीयमानावयवव्यक्तविग्रहभूषणम् ।
स्थितिप्रवीणलावण्यलब्धसौभाग्यवैभवम् ॥८१॥
विचित्रमणियुक्ताभिर्मुक्ताभिर्मंजुळात्मना ।
विभ्राजमानं हैमेन मुकुटेन शिरःस्पृशा ॥८२॥
लीलाचलाचलं भाले हैमं चलदलच्छदम् ।
दधानं विस्फुरन्मुक्तामणिसूत्रान्तलम्बितम् ॥८३॥
अनर्घ्यहीरकिम्मीरपद्मरागमरीचिभिः ।
संभृतश्रीभरोदग्रे बिभ्राणं भुजभूषणे ॥८४॥
गुरुत्मद्रन्तसंपृक्तसाग्रव्याघ्रनखश्रिया ।
विन्यस्तयाभ्राजमानं कृष्णकाचमणिस्रजा ॥८५॥
सद्रत्ननिकरोदंचत् कांचनप्रतिमात्मिकाम् ।
देवीं जीवन्तिकानाम्नीमाबिभ्राणं भुजान्तरे ॥८६॥
प्रवाळनीळसंमिश्रसुवर्णमणिनिर्मिते ।
वलये ललिताकारे कलयन्तं करद्वये ॥८७॥
बतानन्दमयं दिव्यसूत्रसंबद्धमध्यमम् ।
विस्फुरद्गुल्फवलयं विलसन्मणिनूपुरम् ॥८८॥
विदग्धभिःस्वयं स्निन्धलोचकांचितलोचनम् ।
भालान्तराळविन्यस्त चित्रकज्जलचित्रकं ॥८९॥
कमनीयतमस्वर्णकंचुकावृतविग्रहम् ।
धात्र्यःस्मेरमुखं प्रीतास्तंबालं पर्यपालयन् ॥९०॥
अन्तर्बहिश्चरोप्येष बहिर्विहितानिष्क्रमः ।
व्यधादसूर्यं पश्यायाह शिशुः सूर्यस्य दर्शनम् ॥९१॥
उपवेशनमप्यन्नप्राशनं च यथाविधि ।
अस्य राजकुमारस्य क्रमेण समजायत ॥९२॥
दर्याखानं शरैर्भित्वा नीत्वा निरवलेपताम् ।
विजयी शहराजोऽपि शिवंगिरिमथाव्रजत् ॥९३॥
स तत्र सोदरं शंभोरंभोजस्यमलोचनम् ।
व्यलोकत मुदोपेतः सदोदितपराक्रमः ॥९४॥
गाः काञ्चनानिकरिणस्तुरगांश्च राजा ।
रत्नानि च प्रमुदितो व्यतरत्तदानीम् ॥
सद्यो यथात्र निरमुच्यत भूरि कालम् ।
सर्वोऽर्थिनामपि जनोऽन्यजनार्थनाभ्यः ॥९५॥
अथ धराणिमघोनः सूनुरुच्चैर्धरित्रीम् ।
अधि सरसिजहस्तः संचरल्लोकबन्धुः ॥
निखिलतिमिरहारी बालसूर्योपमानः ।
प्रसभमभ्रुतशोभां वर्धमानः क्रमेण ॥९६॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरकवीन्द्रपरमानन्द प्रकाशितायां संहितायां शिवराजप्रभवो नाम षष्ठोऽध्यायः ॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

शिवभारत अध्याय पाचवा