Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

॥ गुरुस्तुतिः ॥

॥ गुरुस्तुतिः ॥
॥ गुरुस्तुतिः ॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।१॥

अखण्डानन्दबोधाय शिष्य-सन्तापहारिणे।
सच्चिदानन्दरूपाय तस्मै श्रीगुरवे नमः॥२॥

अज्ञान-तिमिरान्धस्य ज्ञानांजन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥३॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात्‌ परब्रह्म तस्मै श्रीगुरवे नमः॥४॥

॥ इति गुरुस्तुतिः समाप्ता ॥

Share this Story:

Follow Webdunia marathi