Select Your Language
॥ गुरुतत्वविवेचनम् ॥
॥ गुरुतत्वविवेचनम् ॥ अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम्।दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचश्रुषम्॥१॥अन्धस्य गुरुरेकाक्षस्तस्य द्व्यक्षो गुरुर्मतः।द्व्यक्षाणामपि सर्वेषां गुरुस्त्र्यक्षो न तत्समः॥२॥सहस्राक्षादयः सर्वे द्व्यक्षा एव हि केवलम्।कार्यध्येय-दृशो यस्मात् त्र्यक्षशिष्यपदे स्थिताः॥३॥त्र्यक्षस्तु भगवानादिपुरुषः शंकरो भवः।सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सदिशन्॥४॥उभयातीतममलं तृतीयांक्षस्य गोचरम्।ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः॥५॥स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा।श्रीदेशिकेन्द्रः करुणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके॥६॥क्वचिच्च किंचित् कुरुते मनस्वी क्वचिन्न किंचित् कुरुते प्रमत्तः।बालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु॥७॥स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा।प्रस्तूयते केनचिदेव पुंसा श्रृणोति वा तं स नरोऽपि धन्या॥८॥॥ इति श्रीकृष्णानन्दयतिविरचितं गुरुतत्वविवेचनं सम्पूर्णम् ॥