Select Your Language
हिन्दी
Hindi
English
English
தமிழ்
Tamil
मराठी
Marathi
తెలుగు
Telugu
മലയാളം
Malayalam
ಕನ್ನಡ
Kannada
ગુજરાતી
Gujarati
Notifications
Install App
महाराष्ट्र माझा
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
खाद्य संस्कृती
क्रिकेट
इतर खेळ
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
महाराष्ट्र माझा
ज्योतिष
ग्रह-नक्षत्रे
वास्तुशास्त्र
फेंगशुई
राशिभविष्य
जन्मदिवस आणि ज्योतिष
श्रीराम शलाका
टॅरो भविष्य
चौघड़िया
मासिक जुळत आहे
आजचा वाढदिवस
लाईफस्टाईल
प्रणय
सखी
योग
लव्ह स्टेशन
मराठी साहित्य
मराठी कविता
धर्म संग्रह
आरोग्य
व्हिडिओ
खाद्य संस्कृती
क्रिकेट
इतर खेळ
वास्तुशास्त्र
फ़ोटो गैलरी
शिवजयंती
दशावतारस्तोत्रम्
, गुरूवार, 7 नोव्हेंबर 2024 (06:06 IST)
देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकां
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।
निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा-
डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥
अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणा
निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः
यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-
नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥
गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-
ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।
यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः
ब्रह्मस्तंबमसौदसौ भगवती मुस्तेव विश्वंभरा ॥४॥
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः
पायात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।
यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः
त्रय्यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-
स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-
न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७॥
पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥
फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः
क्षीरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-
र्भूयोभिर्भुवानान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका
रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।
निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं
धर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर: ॥११॥
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन्
क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥
**********************
दशावतारस्तोत्रम्
प्रलयपयोधिजलेधृतवानसि वेदम् विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर जय जगदीश हरे ॥१॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप जय जगदीश हरे ॥२॥
वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप जय जगदीश हरे ॥३॥
तव करकमलवरे नखमद्भुतशृङ्गम् दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप जय जगदीश हरे ॥४॥
छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनित जनपावन ।
केशव धृतवामनरूप जय जगदीश हरे ॥५॥
क्षत्रियरुधिरमये जगदपगतपापम् स्नपयसिपयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥६॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरघुपतिवेष जय जगदीश हरे ॥७॥
वहसि वपुषि विशदे वसनं जलदाभम् हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप जय जगदीश हरे ॥८॥
निन्दसि यज्ञविधेरहह श्रुतिजातम् सदयहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर जय जगदीश हरे ॥९॥
म्लेच्छनिवहनिधने कलयसि करवालम् धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर जय जगदीश हरे ॥१०॥
श्रीजयदेवकवेरिदमुदितमुदारम् शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप जय जगदीश हरे ॥११॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कुलयते कारुण्यमातन्वते
म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥१२॥
**********************
दशावतारस्तोत्रम्
नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।
नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।
नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥२॥
नमोऽस्तु शक्राश्रय वामनाय नमोऽस्तु विप्रोत्सव भार्गवाय ।
नमोऽस्तु सीताहित राघवाय नमोऽस्तुपार्थस्तुत यादवाय ॥३॥
नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्कि पयोदिताय ।
नमोऽस्तु पूर्णामितसद्गुणाय समस्त नाथाय हयाननाय ॥४॥
करस्थ शङ्खोल्लस दक्षमाला प्रबोध मुद्राभय पुस्तकाय ।
नमोऽस्तु वक्त्रोद्गिर दागमाय निरस्त हेयाय हयाननाय ॥५॥
रमासमाकार चतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।
नमोऽस्तु पार्श्वद्वयग द्विरूपश्रियाभिषिक्ताय हयाननाय ॥६॥
किरीट पट्टाङ्गद हार काञ्ची सुरत्नपीतांबर नूपुराद्यैः ।
विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥७॥
विदोष कोटीन्दु निभप्रभाय विशेषतो मध्व मुनि प्रियाय ।
विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूत विघ्नाय हयाननाय ॥८॥
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुत चेष्टिताय ।
दसावतारै स्त्रिदसार्थदाय निशेश बिंबस्थ हयाननाय ॥९॥
नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥१॥
॥इति वादिराजपूज्यचरण विरचितं दशावतारस्तोत्रं संपूर्णम् ॥
**********************
दशावतार हरिगाथा
प्रलयोदन्वदुदीर्णजलविहारानिविशाङ्गम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१॥
चरमाङ्गोद्ध्ऱ्६इतमन्दरतटिनं कूर्मशरीरम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥२॥
सितदंष्ट्रोद्धृतकाश्यपतनयम् सूकररूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥३॥
निशितप्राग्रनखेन जितसुरारिं नरसिंहम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥४॥
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥५॥
क्षपितक्षत्रियवंशनगधरं भार्गवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥६॥
दयिताचोरनिबर्हणनिपुणं राघवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥७॥
मुरलीनिस्वनमोहितवनितं यादवकृष्णम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥८॥
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥९॥
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१०॥
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् ।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥११॥
॥इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥
**********************
दशावतरवर्णनं
मार्कण्डेय उवाच
अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।
ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥
यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे ।
मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥
यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः ।
तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥
तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।
हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥
यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।
नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥
यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।
इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥
रामेण भूत्वा च यथा विष्णुना रावणो हतः ।
सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥
यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।
बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥
यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।
कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥
कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः ।
समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥
हरेरनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा ।
मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥
इति ।
नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११
श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥
**********************
Share this Story:
वेबदुनिया वर वाचा
मराठी ज्योतिष
लाईफस्टाईल
बॉलीवूड
मराठी बातम्या
Follow Webdunia marathi
पुढील लेख
गुरुवारी भगवान विष्णूच्या या मंत्रांचा जप करा, जीवनातील अडथळे दूर होतील
संबंधित माहिती
गुरुवारी भगवान विष्णूच्या या मंत्रांचा जप करा, जीवनातील अडथळे दूर होतील
Saubhagya Panchami 2024 : आज मनापासून शिव - शंभूची पूजा करा, सर्व इच्छा पूर्ण होतील.
Chhath Pooja 2024 : छठ पूजा म्हणजे काय? चार दिवसांच्या सणाबद्दल संपूर्ण माहिती
संकष्टनाशनविष्णुस्तोत्रम्
वराहस्तोत्रम्
Open App
X
Home
धर्म संग्रह
Shorts
Photos
Videos