Article Marathi Arati Sangrah %e0%a4%ad%e0%a4%95%e0%a5%8d%e0%a4%a4%e0%a4%be%e0%a4%ae%e0%a4%b0 %e0%a4%b8%e0%a5%8d%e0%a4%a4%e0%a5%8b%e0%a4%a4%e0%a5%8d%e0%a4%b0 107050300018_1.htm

suvichar

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

भक्तामर स्तोत्र

भक्तामर स्तोत्र
भक्तामर प्रणत मौलि-मणि-प्रभाणामुद्योतकं दलित-पाप-तमो वितानम्‌ ।
सम्यक्‌ प्रणम्य जिनपादयुगं युगादौ वालम्बनं भवजले पततां जनानाम्‌ ।

यः संस्तुतः सकल-वाङ्मय-तत्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः।
स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्‌॥

बुद्ध्‌या विनापि विबुधार्चित-पादपीठ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम्‌ ।
बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम्‌ ॥

वक्तुं गुणान्‌ गुणसमुद्र! शशाᄉकान्तान्‌ कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्‌या ।
कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्‌ ॥

सोऽहं तथापि तव भक्तिवशान्मुनीश! कर्तु स्तवं विगतशक्तिरपि प्रवृत्तः ।
प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निजाशशोः परिपालनार्थम्‌ ॥

अल्पश्रुतं श्रुतवतां परिहास-धाम त्वद्भक्तिरेव-मुखरीकुरुते बलान्माम्‌ ।
यत्‌ कोकिलः किल मधौ मधुरं विरौति तच्चाम्र चारु कलिकानि करैकहेतु ॥

त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं पापं क्षणात्‌ क्षयमुपैति शरीरभाजाम्‌ ।
आक्रांत-लोकमलि-नीलमशेषमाशु सूर्याशु-भिन्नमिव शार्वरमन्धकारम्‌ ॥

मत्वेति नाथ, तब संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात्‌ ।
चेतो हरिष्यति सतां नलिनी-दलेषुमुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥

आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।
दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥

नात्यद्भुतं भुवनभूषण भूतनाथ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः ।
तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥

दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः ।
पीत्वा पयः शशिकरद्युति-दुग्ध-सिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत्‌ ॥

यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैक-ललाम-भूत ।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्‌ ते समानमपरं न हि रूपमस्ति ॥

वक्‌त्रं क्व ते सुर-नरोरग-नेत्र हारि निःशेष-निर्जित-जगत्त्रितयोपमानम्‌ ।
बिम्बं कलंकमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डु-पलाश-कल्पम्‌ ॥

सम्पूर्ण-मंडल-शशांक-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ।
ये संश्रितास्त्रिजगदीश्वर! नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम्‌ ॥

चित्रं किमत्र यदि ते त्रिदशांगनाभिर्नींत मनागपि मनो न विकार-मार्गम्‌ ।
कल्पान्त-काल-मरुता चलिताचलेन किं मंदराद्रि-शिखरं चलितं कदाचित्‌ ॥

निर्धूम-वर्तिरपवर्जित-तैल-पूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि ।
गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्तवमसि नाथ! जगत्प्रकाशः ॥

नास्तं कदाचिदुपयासि न राहु-गम्यः स्पष्टीकरोषि सहसा युगपज्जयन्ति ।
नाम्भोधरोदर-निरुद्ध-महाप्रभावः सूर्यातिशायि महिमाऽसि मुनीन्द्र! लोके ॥

नित्योदयं दलित-मोह-महान्धकारं गम्यं न राहु-वदनस्य न वारिदानाम्‌ ।
विभ्राजते तव मुखाब्जमनल्पकांति विद्योतयज्जगदपूर्व-शशाᄉ-बिम्बम्‌ ॥

किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दु-दलितेषु तमस्सु नाथ ।
निष्पन्न-शालि-वन-शालिनि जीव-लोके कार्य कियज्जलधरैर्जल-भार-नम्रैः ॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरि-हरादिषु नायकेषु ।
तेजः स्फुरन्मणिषु यादि यथा महत्त्वं नैवं तु काच-शकले किरणाकुलेऽपि ॥

मन्ये वरं हरि-हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्षितेन भवता भुवि येन नाल्यः कश्चिन्मनो हरति नाथ, भवान्तरेऽपी ।

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्‌ नान्या सुतं त्वदुपमं जननी प्रसूता ।
सर्वादिशो दधति भानि सहस्र रश्मिं प्राच्येव दिग्जनयति स्फुरदंशुजालम्‌ ॥

त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्णममलं तमसः पुरस्तात्‌ ।
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥

त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनंतमनंगकेतुम्‌ ।
योगीश्वरं विदित-योगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्‌ त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात्‌ ।
धाताऽसिधीर! शिव-मार्ग-विधेर्विधानात्‌ व्यक्तंत्वमेव भगवन्‌ ! पुरुषोत्तमोऽसि ॥

छत्र त्रयं तव विभाति शशांक कान्तमुच्चैः स्थितं स्थगित भानु-कर-प्रतापम्‌ ।
मुक्ताफल-प्रकर-जाल-विवृद्ध शोभं, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम्‌ ॥

उन्निद्र हेम नव पंकज पुंजकान्ती- पर्युल्लसन्नख मयूख शिखाभिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥

इत्थं यथा तव विभूतिरभूज्जिनेन्द्र, धर्मोपदेशन विधौ न तथा परस्य ।
याद्क्‌प्रभा दिनकृतः प्रहतान्धकारा, तादृक्‌तुतो ग्रह-गणस्य विकासिनोऽपि ॥

श्च्योतन्मदाविल-विलोल-कपोल-मूल- मत्त-भ्रमद्भ्रमर-नाद विवृद्ध कोपम्‌ ।
ऐरावताभमिभमुद्धतमापतन्तं दृष्टवा भयं भवति नो भवदाश्रितानाम्‌ ॥

भिन्नेभ कुम्भ गलदुज्ज्वल शोणिताक्त मुक्ता-फल-प्रकरभूषित-भूमि भागः ।
बद्धक्रमः क्रम गतं हरिणाधिपोऽपि नाक्रामति क्रम-युगाचल संश्रितं ते ॥

कल्पान्त-काल-पवनोद्धत-वह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत स्फुलिंगम्‌ ।
विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नाम-कीर्तन-जलं शमयत्यशेषम्‌ ।

रक्तेक्षणं समद-कोकिल-कंठ-नीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम्‌ ।
आक्रामति क्रमयुगेण निरस्त शंकः त्वन्नाम नाग-दमनी हृदि यस्य पुंसः ॥

वल्लगत्तुरंग-गज-गर्जित-भीमनादमाजौ बलं बलवतामपि भूपतीनाम्‌ ।
उद्यद्दिवाकर-मयूख-शिखापविद्धं त्वत्कीर्तनात्‌ तम इवाशु भिदामुपैति ॥

कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह वेगावतार-तरणातुर-योध-भीमे ।
युद्धे जयं विजित दुर्जय-जेय-पक्षास्त्वद्पाद पंकज-वनाश्रयिणो लभन्ते ॥

अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र- पाठीन-पीठ-भय दोल्वणवाडवाग्नौ ।
रंगत्तरंग शिखर-स्थित-यान पात्रा- स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥

उद्भूत-भीषण जलोदर भारभुग्नाः शोच्यां दशामुपगताश्च्युत जीविताशाः ।
त्वत्पाद-पंकज-रजोऽमृत दिग्ध-देहा मर्त्या भवन्तिमकरध्वज-तुल्यरूपाः ॥

आपाद कंठमुरुश्रृंखल वेष्टितांगा गाढं बृहन्निगडकोटि-निघृष्ट-जंघाः ।
त्वन्नाम मंत्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्ध-भया भवन्ति ॥

मत्तद्विपेन्द्र-मृगराज-दवानलाहि-संग्राम-वारिधि-महोदर-बन्धनोत्थम्‌ ।
तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥

स्तोत्रस्रजं तव जिनेन्द्र! गुणैर्निबद्धां भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्‌।
धत्ते जनो य इह कंठ-गतामजस्रं तं मानतुंगमवशा समुपैति लक्ष्मीः ॥

Share this Story:

Follow Webdunia marathi