Article Marathi Arati Sangrah %e0%a5%a5 %e0%a4%8b%e0%a4%b7%e0%a4%bf %e0%a4%b8%e0%a5%8d%e0%a4%a4%e0%a5%81%e0%a4%a4%e0%a4%bf%e0%a4%83 %e0%a5%a5 107072800022_1.htm

Marathi Biodata Maker

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

॥ ऋषि स्तुतिः ॥

॥ ऋषि स्तुतिः ॥
भृगु-र्वशिष्ठः क्रतुरंगिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्‌॥१॥

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरि-पिंगलौ च।
सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्‌॥२॥

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनादि सप्त।
भूरादि कृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्‌॥३॥

इत्थं प्रभाते परमं पवित्रं पठेद् स्मरेद् वा श्रृणुयाच्च तद्वत्‌।
दुःखप्रणाशस्त्विह सुप्रभाते भवेच्च नित्यं भगवत्प्रसादात्‌॥४॥

॥ इति ऋषिस्तुतिः समाप्ता ॥

Share this Story:

Follow Webdunia marathi