Article Marathi Arati Sangrah %e0%a5%a5 %e0%a4%97%e0%a5%81%e0%a4%b0%e0%a5%81%e0%a4%a4%e0%a4%a4%e0%a5%8d%e0%a4%b5%e0%a4%b5%e0%a4%bf%e0%a4%b5%e0%a5%87%e0%a4%9a%e0%a4%a8%e0%a4%ae%e0%a5%8d%e2%80%8c %e0%a5%a5 107072800021_1.htm

Marathi Biodata Maker

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

॥ गुरुतत्वविवेचनम्‌ ॥

॥ गुरुतत्वविवेचनम्‌ ॥
अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम्‌।
दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचश्रुषम्‌॥१॥

अन्धस्य गुरुरेकाक्षस्तस्य द्व्‌यक्षो गुरुर्मतः।
द्व्‌यक्षाणामपि सर्वेषां गुरुस्त्र्यक्षो न तत्समः॥२॥

सहस्राक्षादयः सर्वे द्व्‌यक्षा एव हि केवलम्‌।
कार्यध्येय-दृशो यस्मात्‌ त्र्यक्षशिष्यपदे स्थिताः॥३॥

त्र्यक्षस्तु भगवानादिपुरुषः शंकरो भवः।
सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सदिशन्‌॥४॥

उभयातीतममलं तृतीयांक्षस्य गोचरम्‌।
ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः॥५॥

स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा।
श्रीदेशिकेन्द्रः करुणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके॥६॥

क्वचिच्च किंचित्‌ कुरुते मनस्वी क्वचिन्न किंचित्‌ कुरुते प्रमत्तः।
बालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु॥७॥

स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा।
प्रस्तूयते केनचिदेव पुंसा श्रृणोति वा तं स नरोऽपि धन्या॥८॥

॥ इति श्रीकृष्णानन्दयतिविरचितं गुरुतत्वविवेचनं सम्पूर्णम्‌ ॥

Share this Story:

Follow Webdunia marathi