श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा कामारिमाक्षविषमाक्षशिरः स्पृशन्ती । पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवाळिसेवितपराङ्घ्रिपयोजलग्ना ॥१॥
जीवेशभेदगुणपूर्तिजगत्सुसत्त्व नीचोच्चभावमुखनक्रगणैः समेता । दुर्वाद्यजापतिगिळैर्गुरुराघवेन्द्रवाग्देवतासरिदमुं विमलीकरोतु ॥२॥
श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भ्यः । अघाद्रिसम्भेदनदृष्टिवज्रः क्षमासुरेन्द्रोऽवतु मां सदाऽयम् ॥३॥
श्रीराघवेन्द्रोहरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पत् । देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् ॥४॥
भव्यस्वरूपो भवदुःखतूलसङ्घाग्निचर्यः सुखधैर्यशाली । समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिन्धुसेतुः ॥५॥
निरस्तदोषो निरवद्यवेषः प्रत्यर्थिमूकत्त्वनिदानभाषः । विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरीनिर्जितभव्यशेषः ॥६॥
सन्तानसम्पत्परिशुद्धभक्तिविज्ञानवाग्देहसुपाटवादीन् । दत्त्वा शरीरोत्थसमस्तदोषान् हत्त्वा स नोऽव्याद्गुरुराघवेन्द्रः ॥७॥
यत्पादोदकसञ्चयः सुरनदीमुख्यापगासादिता सङ्ख्याऽनुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः ।
दुस्तापत्रयनाशनो भुवि महा वन्ध्यासुपुत्रप्रदो व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥८॥
यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसा ये । यत्पादपद्मपरिकीर्तनजीर्णवाचस्तद्दर्शनं दुरितकाननदावभूतम् ॥९॥
सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः । विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः । श्रीराघवेन्द्रो यतिराड् गुरुर्मे स्याद्भयापहः ॥१०॥
ज्ञानभक्तिसुपुत्रायुः यशः श्रीपुण्यवर्धनः । प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः । सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्नविद्यते ॥११॥
अपरोक्षीकृतः श्रीशः समुपेक्षितभावजः । अपेक्षितप्रदाताऽन्यो राघवेन्द्रान्नविद्यते ॥१२॥
दयादाक्षिण्यवैराग्यवाग्पाटवमुखाङ्कितः । शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्नविद्यते ॥१३॥
अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयाः । तन्द्राकम्पवचःकौण्ठ्यमुखा ये चेन्द्रियोद्भवाः । दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॥१४॥
श्री राघवेन्द्राय नमः इत्यष्टाक्षर मन्त्रतः । जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्नसंशयः ॥१५॥
हन्तु नः कायजान्दोषानात्मात्मीयसमुद्भवान् । सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥१६॥
इति कालत्रये नित्यं प्रार्थनां यः करोति सः । इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥१७॥
अगम्यमहिमा लोके राघवेन्द्रो महायशाः । श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥१८॥
सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् । करोमि तव सिद्धस्य वृन्दावनगतं जलम् । शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥१९॥
सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् । तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥२०॥
संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे । सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे । दुःखोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥२१॥
राघवेन्द्रगुरुस्तोत्रं यः पठेद्भक्तिपूर्वकम् । तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥२२॥
अन्धोऽपि दिव्यदृष्टिः स्यादेडमूकोऽपि वाग्पतिः । पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद्भवेत् ॥२३॥
यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् । तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् ॥२४॥
यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः । स्तोत्रेणानेन यः कुर्यात्प्रदक्षिणनमस्कृति । स जङ्घालो भवेदेव गुरुराजप्रसादतः ॥२५॥
सोमसूर्योपरागे च पुष्यार्कादिसमागमे । योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् । भूतप्रेतपिशाचादिपीडा तस्य न जायते ॥२६॥
एतत्स्तोत्रं समुच्चार्य गुरोर्वृन्दावनान्तिके । दीपसंयोजनाज्ञानं पुत्रलाभो भवेद्ध्रुवम् ॥२७॥
परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् । सर्वाभीष्टप्रवृद्धिस्स्यान्नात्र कार्या विचारणा ॥२८॥
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् । न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥२९॥
यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठेत् । स्तोत्रं दिव्यमिदं सदा नहि भवेत्तस्यासुखं किञ्चन । किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् । कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥३०॥
इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः । कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिदैः ॥३१॥
इति श्री अप्पण्णाचार्यविरचितं
श्रीराघवेन्द्रस्तोत्रं सम्पूर्णम्
॥भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥