suvichar

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्रीरामाष्टकम्‌

श्रीरामनवमी
कृतार्तदेवबन्दनं दिनेशवंशनन्दनम्‌ ।
सुशोभिभालचन्दनं नमामि राममीश्वरम्‌ ॥१॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्‌ ।
महाधनुर्विदारकं नमामि... ॥२॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्‌ ।
करेषुचापधारिणं नमामि... ॥३॥
कुरंगमुक्तसायकं जटायुमोक्षदायकम्‌ ।
प्रविद्धकीशनायकं नमामि... ॥४॥
प्लवंगसंघसंमतिं निबद्धनिम्नगापतिम्‌ ।
दशास्यवंशसंक्षति नमामि... ॥५॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्‌ ।
स्वबन्धुशोककर्षणं नमामि... ॥६॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्‌ ।
कृतास्तमोहलक्ष्मणं नमामि... ॥७॥
हृताखिलाचलाभरं स्वधामगीतनागरम ।
जगत्तमोदिवाकरं नमामि राममीश्वरम्‌ ॥८॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्‌ ।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥९॥

॥ श्री प. ब्रह्मानन्दविरचितं श्री रामाष्टकं संपूर्ण ॥

अन्य रामाष्टक
हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।
गोविन्दा गरुड़ध्वजा गुणनिधो दामोदरा माधवा॥
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्‌॥
आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्‌।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम्‌॥
बालीनिर्दलनं समुद्रतरणं लंकापुरी दाहनम्‌।
पश्चाद्रावण कुम्भकर्ण हननं एतद्धि रामायणम्‌॥

॥ इति श्रीरामाष्टक संपूर्णम्‌ ॥

Share this Story:

Follow Webdunia marathi