संकष्टनाशनविष्णुस्तोत्रम्
नारद उवाच-
पुनर्दैत्यान् समायातान् दृष्ट्वा देवा सवासवाः ।
भयात्प्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
देवा ऊचुः-
नमो मत्स्यकूर्मादिनानास्वरूपै-
स्सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥२॥
रमावल्लभायाऽसुराणां निहन्त्रे
भुजंगारियानाय पीताम्बराय ।
मखादि क्रिया पाककर्त्रे विकर्त्रे
शरण्याय तस्मै नतास्मो नतास्म ॥३॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्र-
द्विनेत्राय तस्मै नतास्मो नतास्म ॥४॥
संष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचित् न संकष्टैः पीड्यते कृपया हरेः ॥५॥
विष्णोः प्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरुपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम् ।
संतृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देनकीर्तितम् ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥४॥
**********************
सङ्कटनाशविष्णुस्तोत्रम्
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥१॥
रमावल्लभायाऽसुराणां निहर्त्रे
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रेऽघहर्त्रे
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥२॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलयेविष्णवे ते ।
भुजङ्गेशतल्पेशयायार्कचन्द्र-
द्विनेत्राय तस्मै नताः स्मॊ नताः स्मः ॥३॥
सङ्कटनाशनं नाम स्तॊत्रमेतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥४॥
**********************
श्री विष्णुभुजङ्गप्रयातस्तोत्रम्
चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमोङ्कारवेद्यम् ।
गुणातीतमव्यक्तमेकं तुरीयम्
परं ब्रह्म यं वेद तस्मै नमस्ते ॥१॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्यॊतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयम्
त्रयी वक्ति यं वेद तस्मै नमस्ते ॥२॥
महायोगपीठे परिभ्राजमाने
धरण्यादितत्वात्मके शक्तियुक्ते ।
गुणाहस्करे वह्निबिम्बार्कमध्ये
समासीनमोकर्णिकेऽष्टाक्षराब्जे ॥३॥
समानोदितानेकसूर्येन्दुकोटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्ष्यम् ।
न शीतं न चोष्णं सुवर्णावभातम्
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥४॥
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटोचिताकुञ्चितस्निग्धकेशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम् ॥५॥
स्फुरत्कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचोराधरं चारुहासम् ।
कलिव्याकुलामोदिमन्दारमालम्
महोरस्फुरत्कौस्तुभोदारहारम् ॥६॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारोदरालंकृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥७॥
स्वभक्तेषु सन्दर्शिताकारमेवम्
सदा भावयन् सन्निरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारम्
परस्मै तमोभ्योऽपि तस्मै नमस्ते ॥८॥
श्रिया शातकुंभद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयेनामुना तोषिताय
त्रिलॊकीगृहस्थाय विष्णो नमस्ते ॥९॥
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥१०॥
जरेयं पिशाचीव हा जीवितो मे
मृजामस्थिरक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पिन्
किमद्धापि हन्त त्वयोद्भासितव्यम् ॥११॥
कफव्याहतोष्णोल्बणश्वासवेग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसह्यामवस्थाम्
बिभेमि प्रबो किं करोमि प्रसीद ॥१२॥
लपन्नच्युतानन्त गोविन्द विष्णो
मुरारे हरे नाथ नारायणेति ।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मे दयाशील देव प्रसीद ॥१३॥
नमो विष्णवे वासुदेवाय तुभ्यम्
न,ओ नारसिंहस्वरूपाय तुभ्यम् ।
नमः कालरूपाय संहारकर्त्र्यै
नमस्ते वराहाय भूयॊ नमस्ते ॥१४॥
नमस्ते जगन्नाथ विष्णो नमस्ते
नमस्ते गदाचक्रपाणॆ नमस्ते ।
नमस्ते प्रपन्नार्तिहारिन् नमस्ते
समस्तापराधं क्षमस्वाखिलेश ॥१५॥
मुखे मन्दहासं नखे चन्द्रभासम्
करॆ चारुचक्रं सुरेशादिवन्द्यम् ।
भुजङ्गे शयानं भजे पद्मनाभम्
हरेरन्यदैवं न मन्ये न मन्ये ॥१६॥
भुजन्ङ्गप्रयातं पठॆद्यस्तु भक्त्या
समाधाय चित्ते भवन्तं मुरारे ।
स मोहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य यॊगं व्रजत्यच्युतं त्वाम् ॥१७॥