कवीन्द्र उवाच -
शिववर्मा यदा वर्षं द्वादशं प्रत्यपद्यत ।
तदा नृपश्शाहवर्मा नियोगेन पिनाकिनः ॥१॥
अमुं शंभुकनीयांसमाहूय शिवलक्षणम् ।
अर्कद्युतिमदर्कज्ञः पुण्यदेशेश्वरं व्यधात् ॥२॥
मनीषिण ऊचुः -
यथा देशात् भगवतो देवस्य त्रिपुरद्विषः ।
पुण्यदेशंप्रति नृपः प्रेषयामास तं शिवम् ॥३॥
यथा च पुण्यविष्जयं प्राप्तस्स पितुराज्ञया ।
कवीन्द्र परमानन्द यथा त्वमभिधेहि नः ॥४॥
कवीन्द्र उवाच -
एकदाभ्यर्च्य भवने भगवन्तं वृषध्वजम् ।
शयानस्सुखशय्यायां सुकृती शाहभूपतिः ॥५॥
प्रसन्नपंचवदनं दशहस्तं त्रिलोचनम् ।
मंदाकिनीजलस्निग्धजटाजूटमनोहरम् ॥६॥
शीतांशुशकलोत्तंसं त्रिपुण्ड्रललितद्युतिम् ।
हरिन्मणिनिभग्रीवं सरीसृपविभूषणम् ॥७॥
वराभयप्रदं वीरं विविधायुधधारिणम् ।
द्वीपिचर्मोत्तरासंगं द्विपचर्माधरांबरम् ॥८॥
निदानं सर्वमुक्तीनां निधानं सकलश्रियाम् ।
योगिनं योगिनामिंद्रमिंद्रोपेंद्रादिवन्दितम् ॥९॥
समस्तलोकसहितं सहितं गिरिकन्यया ।
अपश्यद्विस्मितः स्वप्ने पुरस्तात्रिपुरद्विषम् ॥१०॥
दृष्ट्वा तमीश्वरं साक्षात् स्वयं समभिवन्द्य सः ।
पुरोबद्धांजलिपुटस्तिष्ठति स्मातिनिर्वृतः ॥११॥
ततः स भगवान् भर्गः स्वभक्तमवनीश्वरम् ।
वचनेनानुजग्राह निरवग्रहशक्तिभृत् ॥१२॥
ईश्वर उवाच -
सूर्यवंश्य महाबाहो शहाराज महामते ।
समाकर्णय मद्वाचमिमां कुशलमस्तिते ॥१३॥
य एष भ्राजतेभ्यर्णे कनीयांस्तनयस्तव ।
तमेनं लक्षणोपेतमवेहि पुरुषोत्तमम् ॥१४॥
वर्धमानः क्रमेणैव त्वत्पुत्रोयमुरुक्रमः ।
समाक्रम्यावनीं सर्वां यवनान्निहनिष्यति ॥१५॥
इथं भगवती देवी गिरिजा भक्तवत्सला ।
समये समयेभ्येत्य तमिमं पालयिष्यति ॥१६॥
हर्ता धरित्रीभारख्य संहर्ता प्रतिभूभृताम् ।
मद्भक्त एष सर्वेषामप्यधृष्यो भविष्यति ॥१७॥
तस्मादमुं महाबाहुं महाशयशिवाह्रयम् ।
पुण्यदेशाधिपत्येन महनीयेन योजय ॥१८॥
तमित्युक्त्वा महेशानस्तदा मुक्तामयीं स्रजम् ।
तस्य राजकुमारस्य कण्ठे स्वयमयोजयत् ॥१९॥
एवमाविर्भवद्धार्दभरे देवे कपर्दिनि ।
प्राबुध्यत धरापालो मुहूर्ते ब्रह्मदैवते ॥२०॥
विशिष्टः स्वेन तपसा विस्मयाविष्टमानसः ।
तामेव मूर्तिमीशस्य ध्यायन्नेष मुहुर्मुहुः ॥२१॥
प्रातः प्रभाकरन्नाम प्रभाकरसमप्रभम् ।
पुरोहितं समानाय्य शशंस स्वप्नमात्मनः ॥२२॥
अथानुमोदितस्तेन प्रहृष्टेन पुरोधसा ।
पुण्यदेशाधिपत्येन शाहः शिवमयोजयत् ॥२३॥
अथ तस्मिन्नाधिपत्ये पित्रादत्ते प्रतापिना ।
प्रयातुकामः स्वं राष्ट्रं शिवराजो व्यराजत ॥२४॥
ततः कतिपयैरेव गजवाजिपदातिभिः ।
मौलैराप्तैरमात्यैश्च ख्यातैरध्यापकैरपि ॥२५॥
बिरुदैश्च ध्वजैरुच्चैः कोषेणापि च भूयसा ।
तथा परिजनैरन्यैरनन्यसमकर्मभिः ॥२६॥
समवेतमसुं शाहभूपतिश्शोभने दिने ।
प्राहिणोत्पुण्यदेशाय पुण्यकारिणमात्मजम् ॥२७॥
ततः कतिपयैरेष दिनैर्दिनकृदन्वयः ।
अयाद्देशं महाराष्ट्रं तस्मात् कर्णाटमंडलात् ॥२८॥
सशक्तित्रितयोपेतः समेतस्सैन्यसंचयैः ।
शिवस्स्वया श्रिया सार्धं पुण्याहं पुरमासदत् ॥२९॥
चक्रप्रियकरः सद्यः समुल्लासितमंडलम् ।
नावेदयदमुं लोकबंधुं लोको व्यलोकत ॥३०॥
ततोनुकूलप्रकृतिः कुर्वन् प्रकृतिरंजनम् ।
अवर्धत क्रमेणैष विक्रमी यशसा सह ॥३१॥
महाराष्ट्रो जनपदस्तदानीं तत्समाश्रयात् ।
अन्वर्थतामन्वभवत् समृद्धजनतान्वितः ॥३२॥
श्रयंतः प्रश्रयोपेतं गुरुवस्तं गूणैस्मह ।
अनन्यनिष्ठमनसः समगच्छन् कृतार्थताम् ॥३३॥
श्रृतिस्मृतिपुराणेषु भारते दण्डनीतिषु ।
समस्तेष्वपि शास्त्रेषु काव्ये रामायणे तथा ॥३४॥
व्यायामे वास्तुविद्यायां होरासु गणितेष्वपि ।
धनुर्वेदचिकित्सायां मते सामुद्रिके पुनः ॥३५॥
तासु तासु च भाषासु छन्दस्सु च सुभाषिते ।
चर्यास्विभरथाश्वानां तथा तल्लक्षणेष्वपि ॥३६॥
आरोहणे प्रतरणे चंक्रमे च विघंलने ।
कृपाणचापचक्रेषु प्रासपट्टिशशक्तिषु ॥३७॥
युद्धे नियुद्धे दुर्गाणां दुर्गमीकरणेषु च ।
दुर्लक्ष्यलक्ष्यवेधेषु दुर्गमाभिगमेष्वपि ॥३८॥
इंगितेषु च मायासु विषनिर्हरणादिषु ।
तत्तद्रन्तपरीक्षायामवधाने लिपिष्वपि ॥३९॥
प्रवीणः स स्वयं तांस्तान् गूरून् गुरुयशोभरैः ।
अयोजयत् भृशं तत्तत् प्रत्यभिज्ञानवान् विभुः ॥४०॥
स एष यौवनारंभे दधानोऽभिनवां श्रियम् ।
व्यभाद्यथा वासन्तविभवे सुरुभूरुहः ॥४१॥
तमुल्लंघितकौमारमुद्भवन्नवयौवनम् ।
मीनकेतनलावण्यश्रीविलासमनोहरम् ॥४२॥
सती शीलवती रम्यरूपा चातिगुणोज्वला ।
अभजद् भूपतिं भार्या प्रवारकुलसंभवा ॥४३॥
पूर्वजन्मप्रणयिनीं स इमां वरवर्णिनीम् ।
लब्ध्वा मुदमुपादत्त श्रीकृष्ण इव रुक्मिणीम् ॥४४॥
प्रादुभर्वत् प्राग्भवसंस्तवाभ्यां ।
मिथोनुकूलत्वमुपागताभ्याम् ॥
अधत्त ताभ्यामथदंपतीभ्यां ।
संभूय शोभां महतीं त्रिवर्गः ॥४५॥
इत्यनुपुराणे सूर्यवंशे निधिवासकर - कवीन्द्रपरमानन्द - प्रकाशितायां संहितायां दशमोध्यायः