Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

गंगालहरी Ganga Lahari

गंगालहरी Ganga Lahari
, शनिवार, 25 मार्च 2023 (10:11 IST)
समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥१॥
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् ।
अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥२॥
उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसङ्क्षोभनिवहाः ।
भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥३॥
तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।
इदानीमौदास्यं भजसि यदि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥४॥
स्मृतिं याता पुंसामकृतसुकृतानामपि च या हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला ममान्तःसन्तापं त्रिविधमपि पापं च हरताम् ॥५॥
अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीम् ॥६॥
प्रभाते स्नातीनां नृपतिरमणीनां कुचतटी- गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।
मृगास्तावद्वैमानिकशतसहस्रैः परिवृता विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥७॥
स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि प्रगीतं यत्पापं झटिति भवतापं च हरति ।
इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥८॥
यदन्तः खेलन्तो बहुलतरसन्तोषभरिता न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।
निवासाल्लोकानां जनिमरणशोकापहरणं तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥
न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं न यस्मिन् जीवानां प्रसरति मनोवागवसरः ।
निराकारं नित्यं निजमहिमनिर्वासिततमो विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥१०॥
महादानैर्ध्यानैर्बहुविधवितानैरपि च यन् न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया ददाना केनासि त्वमिह तुलनीया कथय नः ॥११॥
नृणामीक्षामात्रादपि परिहरन्त्या भवभयं शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥१२॥
विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै- रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।
हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥१३॥
स्खलन्ती स्वर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।
अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥१४॥
जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान् ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥१५॥
स्वभावस्वच्छानां सहजशिशिराणामयमपा- मपारस्ते मातर्जयति महिमा कोऽपि जगति ।
मुदायं गायन्ति द्युतलमनवद्यद्युतिभृतः समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥१६॥
कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरिता- न्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥१७॥
निधानं धर्माणां किमपि च विधानं नवमुदां प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।
समाधानं बुद्धेरथ खलु तिरोधानमधियां श्रियामाधानं नः परिहरतु तापं तव वपुः ॥१८॥
पुरो धावं धावं द्रविणमदिराघूर्णितदृशां महीपानां नानातरुणतरखेदस्य नियतम् ।
ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥१९॥
मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली- स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।
सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं जलं ते जम्बालं मम जननजालं जरयतु ॥२०॥
समुत्पत्तिः पद्मारमणपदपद्मामलनखा- न्निवासः कन्दर्पप्रतिभटजटाजूटभवने ।
अथाऽयं व्यासङ्गो हतपतितनिस्तारणविधौ न कस्मादुत्कर्षस्तव जननि जागर्तु जगति ॥२१॥
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥२२॥
विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति जननी ॥२३॥
अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां पतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं शिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥२४॥
विलीनो वै वैवस्वतनगरकोलाहलभरो गता दूता दूरं क्वचिदपि परेतान् मृगयितुम् ।
विमानानां व्रातो विदलयति वीथिर्दिविषदां कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥२५॥
स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिल- ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।
हरन्तां सन्तापं कमपि मरुदुल्लासलहरि- च्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः ॥२६॥
इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।
स एष श्रीकण्ठप्रविततजटाजूटजटिलो जलानां सङ्घातस्तव जननि तापं हरतु नः ॥२७॥
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।
इमं त्वं मामम्ब त्वमियमनुकम्पार्द्रहृदये पुनाना सर्वेषामघमथनदर्पं दलयसि ॥२८॥
श्वपाकानां व्रातैरमितविचिकित्साविचलितै- र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥२९॥
न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो यदुद्धारादाराद्भवति जगतो विस्मयभरः ।
इतीमामीहां ते मनसि चिरकालं स्थितवती- मयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥३०॥
श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केश्वभ्यासः सततपरपैशुन्यमननम् ।
अपि श्रावं श्रावं मम तु पुनरेवं गुणगणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥३१॥
विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः ।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो- र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥३२॥
विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः पतन्ति द्राक् पापा जननि नरकान्तः परवशाः ।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥३३॥
अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा- मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥३४॥
अलभ्यं सौरभ्यं हरति सततं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् ।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात् पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥३५॥
कियन्तः सन्त्येके नियतमिहलोकार्थघटकाः परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयं जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥३६॥
भवत्या हि व्रात्याधमपतितपाखण्डपरिषत् परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥३७॥
प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा- तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः ।
बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभग- स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥३८॥
सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।
तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥३९॥
कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।
भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥४०॥
प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती- मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।
शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥४१॥
ललाटे या लोकैरिह खलु सलीलं तिलकिता तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥४२॥
नरान् मूढांस्तत्तज्जनपदसमासक्तमनसो हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।
पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान् सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥४३॥
यजन्त्येके देवान् कठिनतरसेवांस्तदपरे वितानव्यासक्ता यमनियमरक्ताः कतिपये ।
अहं तु त्वन्नामस्मरणकृतकामस्त्रिपथगे जगज्जालं जाने जननि तृणजालेन सदृशम् ॥४४॥
अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं विनाऽमुष्मिंल्लोके न परमवलोके हितकरम् ॥४५॥
पयः पीत्वा मातस्तव सपदि यातः सहचरै- र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥४६॥
बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।
न कुर्यास्त्वं हेलामितरजनसाधारणतया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥४७॥
शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां करैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम् ।
सुधाधाराकाराभरणवसनां शुभ्रमकर- स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः ॥४८॥
दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै- र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।
चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती तनोतु मम शन्तनोः सपदि शन्तनोरङ्गना ॥४९॥
मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः ।
वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि त्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः ॥५०॥
द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे ।
साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब व्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥५१॥
विभूषितानङ्गरिपूत्तमाङ्गा सद्यःकृतानेकजनार्तिभङ्गा । मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥५२॥
इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् । यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥५३॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

रामाचे वंशज कोण? जाणून घ्या संपूर्ण माहिती