Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

रामषट्पदी

रामषट्पदी
, शुक्रवार, 12 एप्रिल 2024 (16:45 IST)
तरणिकुलजलतरणे तरुणतरणितेजसा विभातरणे । कृतविदशदशमुखमुखतिमिरगणेऽन्तस्तमो नुद मे ॥१॥
शयविधृतशरशरासन निखिलखलोज्जासनप्रथितसुयशाः । मथितहृदयान्तरालं दुष्कृतिजालं ममापनय ॥२॥
सुरुचिरमरीचिनिचयांश्चरणनखेन्दूनुदाय मम हृदये । हृदयेश विकलतापं स्वसकलतापं किलापहर ॥३॥
इन्दीवरदलसुन्दर वरदलसद्वामजानकीजाने । जाने त्वामखिलेशं लेशलसल्लोकलोकेशम् ॥४॥
शं कुरु शङ्करवल्लभ यल्लभतामाश्वयं त्वदंघ्रियुगे । अनुरक्तिदृढां भक्तिं चिरस्य चिन्ताब्धिभवभक्तिम् ॥५॥
वैराजराजराजोऽप्यभूत्सुसाकेतराजनरराजः । वानरराजसहायो लीलाकैवल्यमेतद्धि ॥६॥
जगदसुसुतासुपरवसुमुदे यदेषा स्तुतिः कृता स्फीता । सा रामषट्पदीयं विलसतु तत्पादजलजाते ॥७॥
॥इति श्रीमन्मालवीयशुक्ल श्रीमन्मथुरानाथप्रणीता रामषट्पदी समाप्ता ॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

आनंद रामायण