Dharma Sangrah

श्री महालक्ष्मी स्तोत्रम्

Webdunia
गुरूवार, 4 नोव्हेंबर 2021 (08:55 IST)
पुरन्दर उवाच-
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने ॥४॥
सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः ।
नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः ॥५॥
वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी ॥७॥
अदितिर्देवमाता त्वंकमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥९॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥१०॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥१२॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः ।
सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह ॥१८॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥१९॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्चवरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥२१॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं ॥२४॥
सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥२५॥
इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

संबंधित माहिती

सर्व पहा

नवीन

Sai Baba Puja Mantra गुरुवारी करा साईबाबांची पूजा, उपवासाचे नियम मंत्र जाणून घ्या

Akshaya Tritiya 2026 सोने किंवा चांदी खरेदी करणे शक्य नसेल तर अक्षय तृतीयेला ही 10 रुपयाची वस्तू घरी आणा आणि तितकेच पुण्य मिळवा!

Budh Stotra लक्ष्य साध्य करण्यासाठी बुध स्तोत्र पाठ

आरती बुधवारची

Varuthini Ekadashi 2026 वरुथिनी एकादशी व्रत कधी? जाणून घ्या अचूक तारीख, शुभ मुहूर्त आणि पूजेची पद्धत

सर्व पहा

नक्की वाचा

स्वर्ग आणि नरक खरंच असतात का? जाणून घ्या सत्य

Wheat Storage Tips: अशा प्रकारे साठवा गहू; वर्षभर सुरक्षित राहील एकही कीड लागणार नाही

What is Box Breathing फक्त ४ सेकंदात मिळवा मानसिक शांती: जाणून घ्या बॉक्स ब्रीदिंगची जादू

एप्रिल ते जूनच्या सुट्ट्यांमध्ये भारतातील या अद्भुत सणांना आवर्जून भेट द्या; ज्यामुळे तुमची सहल अविस्मरणीय ठरेल

Salt vastu remedies घरात लोक सतत आजारी पडत असतील तर एकदा हे नक्की करुन बघा

पुढील लेख
Show comments