उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अथ सहस्रनाम स्तोत्रम् । हनुमान् श्री प्रदो वायु पुत्रो रुद्रो अनघो अजरः । अमृत्युर् वीरवीरश्च ग्रामावासो जनाश्रयः ॥१॥ धनदो निर्गुणः शूरो वीरो निधिपतिर् मुनिः...