स्फुरद्विद्युदुल्लासवालाग्रघण्टा- झणत्कारनादप्रवृद्धाट्टहासम् । भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥१॥ प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥२॥ भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् । भजे चन्द्रिकाकुन्दमन्दारभासं भजे सन्ततं रामभूपालदासम् ॥३॥ भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षम् । भजे घोरसंग्रामसीमाहताक्षं भजे रामनामातिसंप्राप्तरक्षम् ॥४॥ मृगाधीशनाथं...