श्रीमल्लारिरुवाच ॥ तस्मात्सर्वप्रयत्नेनमयिभक्तिस्तुदुर्लभा ॥ लभ्यतेमानुषै:सातुनपूर्वसुकृतैर्विना ॥१॥ येषांगृहेमदीयातुप्रतिमापूज्यतेसदा ॥ तेषांगृहेसदालक्ष्मीश्चिरवासा:सुरर्षय: ॥२॥ इदंमदीयंमाहात्म्यंपुस्तकंलिखितंगृहे ॥ तिष्ठतेतस्यमाहात्म्यंश्रृणुध्वंतद्द्विजोत्तमा: ॥३॥ तत्रनोग्रहभूतेशाडाकिन्योवनदेवता: ॥ पूतनाश्चमहामार्य:कृत्यारक्ष:पिशाचका: ॥४॥ प्रेतभैरवकूष्मांडास्तथैवोग्राश्चमातर: ॥ आपदेशिकलोकाश्चतथाभूचरखेचरा: ॥५॥ यक्षगंधर्वयक्षिण्यश्चेटकोपविषाणिच ॥ चक्रुरग्रहा:सर्वेसहजाब्रह्मराक्षसा: ॥६॥ व्याघ्रसर्पभुजंगास्तुवह्निचोरादयोपिच ॥ येपूर्वजन्मकलुषप्रभवारोगसंचया: ॥७॥ उत्पाताश्चैवयेचान्येदुष्टभूतसमुद्भवा: ॥ नपीडांतत्रकुर्वंतीममाज्ञानान्यथाभवेत् ॥८॥ गृहेतस्यमहालक्ष्मी:कल्पांतासंतिस्तथा ॥ किमत्रबहुनोक्तेनतत्कुलंरक्ष्यतेमया ॥९॥ एतन्ममैतन्माहात्म्यंय:श्रृणोतिद्विजोत्तमा: ॥ यावदक्षरमर्यादातावत्स्वर्गेमहीयते ॥१०॥ एतत्पठतियोमर्त्य:सोश्वमेधफलंलभेत् ॥ य:श्रावयिष्यतिनरोमाहात्म्यमिदमुत्तमम् ॥११॥ सोहमेवनसंदेह:पूज्योवस्त्रैश्चभूषणै: ॥ योस्याप्यक्षरमप्येकंश्रृणोत्यन्यमुखादपि ॥१२॥...