महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥१॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽ परे बुद्धञ्चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचित् गणपतिमुतार्कञ्च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥२॥ शिवः पादांभस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।...