लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाग्रेस्तुङ्गशृंगस्थितमिव रजनीनाथबिम्बं विभाति । पायान्नः पाञ्चजन्यः स दितिजकुलत्रासनैः पूरयन् स्वैः निर्ध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥१॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशु शोभम् ॥२॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्तेः अस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फार...