rashifal-2026

शिवमहिम्न स्तोत्र

Webdunia
श्री पुष्पदन्त उवाच-

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पन्थानं तब च महिमा वांगमनसयो-
रतद्व्‌यावुत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोत्व्यः कतिविधिगुणः कस्य विषयः
पदे त्वर्वाचीने पतित न मनःकस्य न वचः ॥२॥

धुस्फीता वाचः परममृतं निर्मितवत-
स्तव ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम्‌ ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेस्मिन्त पुरमथन बुद्धिर्व्यवसिता ॥३॥

तवैश्वर्य यत्तज्जगदुदयरक्षाप्रलयकृत्‌
त्रयीवस्तु व्यस्तं तिसृषु गुण्तनुषु ।

अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जड़धियाः ॥४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।

अतर्क्यश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्को ऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवधिरनादृत्य भवति ।

अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति चः

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥

महोक्षः खट्वांगं परशुरजिनं भस्मफणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्‌ ।

सुरास्तांतामृद्धिं विदधति भवद्भू्र प्रणिहितां ।
नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥

धु्रवं कश्चित्‌ सर्वं सकलमपरस्त्व धु्रवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन्‌ पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥

तवैश्वर्य यत्नाद्यदुपरि विरिंचो हरिरधः
परिच्छेत्तुं यातावनलमनिलस्कन्धवपुषः

ततो भक्ति श्रद्धा भरगुरुगृणद्भ्‌यां गिरिश यत्‌
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥

अयत्नादासाद्य त्रिभुवनमवैरिव्यतिकरं
दशास्यो यद्वाहूनभूत रणकण्डूपरवशान्‌ ।

शिरः पद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्‌ ॥११॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवन
बलात्‌ कैलासेऽसि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥

यदृद्धि सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।

न तच्चित्रं तस्मिन्‌ वरिवसितरि त्वच्चरणयो-
र्नकस्याप्युन्नत्यैभवतिशिर सस्त्वय्यवनतिः ॥१३॥

अकाण्डब्रह्माण्ड क्षयचकितदेवासुरकृपा-
विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाध्यो भुवनभयभंगव्यसनिनः ॥१४॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्‌
स्मरः स्मर्त्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥१५॥

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्‌ ।

मुहुर्द्यौर्दोस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुतः ॥१६॥

वियद्वयापीतारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते

जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्राकों रथचरण पाणिः शर इति ।

दिधक्षोस्ते कोयं त्रिपुरतृणमाडम्बरविधि-
विधेर्यः क्रीडन्त्यो न खलुपरतन्त्राः प्रभुधियः ॥१८॥

हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम्‌

गतो भवत्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहरजागति जगताम्‌ ॥१९॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते

अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढ़परिकरः कर्मसु जनः ॥२०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।

क्रतुभ्रंशस्त्वत्तः क्रतुषुफलदानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति नमृगव्याधरभसः ॥२२॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्‌
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनरित देहार्द्धघटना-
दवैति त्वामद्धा वत वरद मुग्धा युवतयः ॥२३॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटी परिकरः ।

अमंगल्यं शीलं तव भवतु नामैवमखिलं
तथाऽपि स्मर्तृणां वरद परमं मंगलमसि ॥२४॥

मनः प्रत्यक्‌ चित्ते सविधमभिधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगतिदृशः ।

यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये
दधत्यंतस्तत्त्वंकिमपियमिनस्तत्किल भवान्‌ ॥२५॥

त्वमर्कस्त्वंसोमत्वम सिपवनस्त्वंहुतवह-
स्त्वमापस्त्वंव्योमत्वमुधरणिरात्मात्वमितिच ।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह हि यत्त्वं न भवसि ॥२६॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथोत्रीनपिसुरा-
नकाराद्यैर्वर्णे स्त्रिभिरभिदधत्तीर्णविकृति ।

तुरीयंते धामध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणदगृणात्योमितिपदम्‌ ॥२७॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महां-
स्तथाभीमेशानावितियदभिधानाष्टकमिदम्‌ ।

अमुष्मिन्प्रत्येकंप्रविचरति देव श्रुतिरपि
प्रियायाऽस्मैधाम्नेप्रणिहितनमस्योस्मिभवते ॥२८॥

नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते, तदिमिति शर्वाय च नमः ॥२९॥

बहलरजते विश्वोत्पत्तौ भवाय नमोनमः
प्रबलतमसे तस्संहारे हराय नमोनमः

जनसुखकृते सत्त्वोत्पत्तौ मृडाय नमोनमः
प्रमहसि पदे निस्त्रैगुण्येशिवाय नमोनमः ॥३०॥

कृशपरिणति चेतः क्लेशर्वश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धिः ।

इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम्‌ ॥३१॥

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्व्वी ।

लिखित यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश परं न यति ॥३२॥

असुरसुरमुनीन्द्रैरर्चितस्येन्द्रमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगुणवरिष्ठः पुष्पदंताभिवान
रुचिरमलघुवृत्तैः स्तोत्रमेच्चकार ॥३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्‌
पठति परमभक्त्या शुद्धचित्तः पुमान्‌ यः ।

स भवति शिवलोके रुद्रतुल्यः सदात्मा
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥३४॥

महेशान्नापरो देवो महिम्नपो नापराः स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम ॥३५॥

दीक्षा दानं तपस्तीर्थं होमयज्ञादिकाः क्रियाः।
महिम्नः स्तवपाठस्य कलां नार्ह्नन्तिषोडशीम्‌ ॥३६॥

कुमुदशननामा सर्वगन्धर्वराजः
शशिधर वर मौलेर्देवदेस्य दास ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्‌
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥३७॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य प्रांजलिर्नान्यचेताः ।

वज्रति शिव समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्प्रणीतम्‌ ॥३८॥

आसमाप्तमिदं स्तोत्रं पुष्पगंधर्वभाषितम
अनौपम्य मनोहारि पुण्यमीश्वरवर्णनम्‌ ॥३९॥

इत्येषा वांगमयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन मे देवः प्रयीतां च सदाशिः ॥४०॥

तव तत्त्वं न जानामि कींदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥४१॥

एककालं द्विकालं वा त्रिकालं यः पठेत सदा ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥४२॥

श्री पुष्पदन्तमुखपंकजनिर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण ।

कण्ठस्थितेन पठितैन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥४३॥

॥ शिवमहिम्नः स्तोत्र संपूर्ण ॥

संबंधित माहिती

सर्व पहा

नवीन

श्री संत बाळूमामा आरती

Shiv Jayanti 2026 Slogan in Marathi छत्रपती शिवाजी महाराज घोषवाक्य मराठी

मंगळवारी मारुती स्त्रोत पाठ करा, संकट नाहीसे होतील

आरती मंगळवारची

Ramadan 2026 Marathi Wishes रमजान मुबारक खास शुभेच्छा मराठीत

सर्व पहा

नक्की वाचा

Shiv Jayanti 2026 Slogan in Marathi छत्रपती शिवाजी महाराज घोषवाक्य मराठी

Royal Baby Names मुलींसाठी छत्रपती शिवाजी महाराजांच्या नावावरून प्रेरित आधुनिक आणि अर्थपूर्ण नावे

Ramadan 2026 रमजान मध्ये कधीपासून? तारखा, महत्त्व आणि रोजाचे नियम जाणून घ्या

Mangal gochar 2026: कुंभ राशीत मंगळाचा प्रवेश, या राशींचे उजळणार नशीब; तुमच्या राशीवर काय होणार परिणाम?

किडनीच्या रुग्णांनी या भाज्याचे सेवन करू नये, समस्या वाढेल

पुढील लेख
Show comments