rashifal-2026

श्री दुर्गा सप्तशती पाठ अध्याय 12

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:14 IST)
द्वादशोऽध्याय:
ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्‍चक्रगदासिखेटविशिखांश्‍चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
'ॐ' देव्युवाच ॥१॥
एभि: स्तवैश्च मां नित्यं स्तोष्यते य: समाहित: ।
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥२॥
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयो: ॥३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतस: ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥४॥
न तेषां दुष्कृतं किंचिद् दुष्कृतोत्था न चापद: ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥५॥
शत्रुतो न भयं तस्य दस्युतो वा न राजत: ।
न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति ॥६॥
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितै: ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥७॥
उपसर्गानशेषांस्तु महामारीसमुद्‌भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥८॥
यत्रैतत्पठ्यते सम्यङ्‌नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥९॥
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ॥१०॥
जानताऽजानता वापि बलिपूजां तथा कृताम् ।
प्रतीच्छिष्याम्यहं प्रीत्या वहिनहोमं तथा कृतम् ॥११॥
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वित: ॥१२॥
सर्वाबाधाविनिर्मुक्‍तो धनधान्यसुतान्वित: ।
मनुष्यो मत्प्रसादेन भविष्यति न संशय: ॥१३॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तय: शुभा: ।
पराक्रमं च युद्धेषु जायते निर्भय: पुमान् ॥१४॥
रिपव: संक्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम श्रृण्वताम् ॥१५॥
शान्तिकर्मणि सर्वत्र तथा दु:स्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम ॥१६॥
उपसर्गा: शमं यान्ति ग्रहपीडाश्‍च दारुणा: ।
दु:स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥१७॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥१८॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥१९॥
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
पशुपुष्पार्घ्यधूपैश्र्च गन्धदीपैस्तथोत्तमै: ॥२०॥
विप्राणां भोजनैर्होमै: प्रोक्षणीयैरहर्निशम् ।
अन्यैश्‍च विविधैर्भोगै: प्रदानैर्वत्सरेण या ॥२१॥
प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते ।
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥२२॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥२३॥
तस्मिच्छूते वैरिकृतं भयं पुंसां न जायते ।
युष्माभि: स्तुतयो याश्र्च याश्र्च ब्रह्मर्षिभि:कृता: ॥२४॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारित: ॥२५॥
दस्युभिर्वा वृत: शून्ये गृहीतो वापि शत्रुभि: ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभि: ॥२६॥
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थित: पोते महार्णवे ॥२७॥
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥२८॥
स्मरन्ममैतच्चरितं नरो मुच्येत सड्‌कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥२९॥
दूरादेव पलायन्ते स्मरतश्‍चरितं मम ॥३०॥
ऋषिरुवाच ॥३१॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥३२॥
पश्यतामेव देवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्‌का: स्वाधिकारान् यथा पुरा ॥३३॥
यज्ञभागभुज: सर्वे चक्रुर्विनिहतारय: ।
दैत्याश्‍च देव्या निहते शुम्भे देवरिपौ युधि ॥३४॥
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषा: पातालमाययु: ॥३५॥
एवं भगवती देवी सा नित्यापि पुन: पुन: ।
सम्भूय कुरुते भूप जगत: परिपालनम् ॥३६॥
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥३७॥
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्‍वर ।
महाकाल्या महाकाले महामारीस्वरूपया ॥३८॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥३९॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥४०॥
स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ।
ददाति वित्तं पुत्रांश्‍च मतिं धर्मे गतिं शुभाम् ॥ॐ॥४१।
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये
फलस्तुतिर्नाम द्वादशोऽध्याय: ॥१२॥
उवाच ३, अर्धश्लोकौ २, श्लोका: ३७,
एवम् ४१, एवमादित: ६७१ ॥
-श्री वैभवलक्ष्मीर्विजयते -

संबंधित माहिती

सर्व पहा

नवीन

ऐतिहासिक वारसा आणि आध्यात्मिक ऊर्जा: सज्जनगडाची वारी

रामदास स्वामींची आरती Samarth Ramdas Aarti

Sri Ramdas Navami 2026 दासनवमी २०२६- प्रपंचासह परमार्थ कसा साधावा समर्थांनी शिकवले

आरती बुधवारची

Das Navami 2026 Messages in Marathi दासनवमी निमित्त त्रिवार वंदन

सर्व पहा

नक्की वाचा

वडील जिवंत असताना मुलाने ही ५ कामे करू नयेत, हिंदू धर्मात मुलांसाठी खास नियम

Tips for storing lemon pickles लिंबाचे लोणचे वर्षानुवर्षे या पारंपारिक पद्धतींने साठवा

प्रेम म्हणजे नक्की काय असतं? शब्दांच्या पलीकडचं एक नातं!

Valentine's Week Full Calendar 2026 व्हॅलेंटाईन वीकचे ७ दिवस: रोज काय खास करावं? जाणून घ्या संपूर्ण वेळापत्रक

२०२७ पर्यंत 'मंगळ' देणार मोदींना बळ; त्यानंतर भारतीय राजकारणात कोणाचा सूर्योदय?

पुढील लेख
Show comments