Festival Posters

श्री दुर्गा सप्तशती पाठ अध्याय 7

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:05 IST)
सप्तमोऽध्याय:
ध्यानम्
ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं श्रृण्वतीं श्यामलाङ्‌गीं
न्यस्तैकाङ्‌घ्रिंसरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्राराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्‌गीं शङ्‍खपात्रां मधुरमधुमदां चित्रकोद्‌भासिभालाम् ॥
'ॐ' ऋषिरुवाच ॥१॥
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमा: ।
चतुरङ्‍गबलोपेता ययुरभ्युद्यतायुधा: ॥२॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रश्रृङ्‌गे महति काञ्चने ॥३॥
ते दृष्ट्‌वा तां समादातुमुद्यमं चक्रुरुद्यता: ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगा: ॥४॥
तत: कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकादद्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥६॥
विचित्रखट्‌वाङ्‌गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥७॥
अतिविस्तारवदना जिव्हाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्‌मुखा ॥८॥
सा वेगेनाभीपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत् तद्‌बलम् ॥९॥
पार्ष्णिग्राहाङ्‌कुशग्राहियोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥१०॥
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्‍चर्वयन्त्यतिभैरवम् ॥११॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यामुरसान्यमपोथयत् ॥१२॥
तैर्मुक्‍तानि च शस्त्राणि महास्त्राणि तथासुरै: ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥१३॥
बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्‍चाताडयत्तथा ॥१४॥
असिना निहता: केचित्केचित्खट्‌वाङ्‌गताडिता: ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥१५॥
क्षणेन तद् बलं सर्वमसुराणा निपतितम् ।
दृष्ट्‌वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥१६॥
शरवर्षेर्महाभीमैर्भीमाक्षीं तां महासुर: ।
छादयामास चक्रैश्‍च मुण्ड: क्षिप्तै: सहस्रश: ॥१७॥
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥१८॥
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥१९॥
उत्थाय च महासिं हं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥२०॥
अथ मुण्डोऽभ्यधावत्तां दृष्ट्‌वा चण्डं निपातितम् ।
तमप्यपातयद्‌भूमौ सा खङ्गाभिहतं रुषा ॥२१॥
हतशेषं तत: सैन्यं दृष्ट्‌वा चण्डं निपातितम् ।
मुण्डं च समुहावीर्यं दिशो भेजे भयातुरम् ॥२२॥
शिरश्‍चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥२३॥
मया तवात्रोपह्रतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥२४॥
ऋषिरुवाच ॥२५॥
तावानीतौ ततो दृष्ट्‌वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वच: ॥२६॥
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॥ॐ॥२७॥
इति श्रीमार्कंण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये
चण्डमुण्डवधो नाम सप्तमोऽध्याय: ॥७॥
उवाच २, श्‍लोका: २५, एवम् २७, एवमादित: ४३९ ॥
- श्री कालिका विजयते -

संबंधित माहिती

सर्व पहा

नवीन

Adi Shankaracharya Jayanti 2026 आदि शंकराचार्य जयंती २०२६ तिथी, महत्त्व आणि अनमोल विचार

Adi Shankaracharya Jayanti 2026 Wishes in Marathi आदि शंकराचार्य जयंती शुभेच्छा

आरती मंगळवारची

गंगा सप्तमी 2026: तारीख, शुभ मुहूर्त आणि महत्त्व जाणून घ्या

Parshuram Jayanti 2026 Wishes in Marathi परशुराम जयंतीच्या शुभेच्छा

सर्व पहा

नक्की वाचा

ताकाचे 5 वेगवेगळे प्रकार (डायटसाठी बेस्ट)

कल्की अवतार आणि तिसरे महायुद्ध: या दोन्हींमध्ये काही संबंध आहे का? या प्रमुख घटना केव्हा आणि कशा घडतील?

लग्नाआधी हे प्रश्न नक्की विचारा, नाहीतर आयुष्यभर पश्चात्ताप होऊ शकतो!

उन्हाळ्यात तुळशीची काळजी कशी घ्यावी?

१९ ते २५ एप्रिल २०२६ चे साप्ताहिक राशीभविष्य

पुढील लेख
Show comments