अथ श्रीदुर्गासप्तशती प्रथमोऽध्याय: प्रथमचरित्र ॐ प्रथमचरित्रस्य ब्रह्मा ऋषि: महाकाली देवता गायत्री छंद: नंदाशक्ति: रक्तदन्तिकाबीजम् अग्नितत्त्वतम् ऋग्वेद:स्वरूपम् श्री महाकालीप्रीत्यर्थे प्रथमचरित्र जपे विनियोग: । ध्यानम् खड्गं चक्रगदेषुचापपरिघाच्छूलं भुशुण्डीं शिर: शङ्खं संदधतीं करौस्त्रिनयनां सर्वाड्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥ ॐ नमश्चण्डिकायै ॥ ॐ नम: चण्डिकायै ॐ ऎं...