भजेऽहं सदा राममिंदीवराभं भवारण्यदावानलाभाभिधानम् । भवानीह्रदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥ सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानंदरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥ प्रपन्नाखिलानंददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तयोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥ सदा भोगभाजां सुदुरे विभातं सदा योगभाजामदूरे विभातम् । चिदानन्दकंदं सदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये...