Webdunia - Bharat's app for daily news and videos

Install App

रामस्तवराजः

Webdunia
शनिवार, 13 एप्रिल 2024 (21:13 IST)
अस्य श्रीरामचंद्रस्तवराजस्तोत्रमंत्रस्य सनत्कुमार ऋषिः ।
श्रीरामो देवता । अनुष्टुप्छंदः ।
सीता बीजम् । हनुमान शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः ।
सूत उवाच ।
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् ।धर्मपुत्रः प्रह्रष्टात्मा प्रत्युवाच मुनीश्‍वरम् ॥ १ ॥
युधिष्ठिर उवाच ।
भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद । किं तत्त्वं किंपरं जाप्यं किं ध्यानं मुक्तिसाधनम् ॥ २ ॥
वेदव्यास उवाच ।
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम । धर्मराज महाभाग श्रृणु वक्ष्यामि तत्त्वतः ॥ ३ ॥
यत्परं यद्‌गुणातीतं यज्योतिरमलं शिवम् । तदे परमं तत्त्वं कैवल्यपदकारणम् ॥ ४ ॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्। ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५ ॥
श्रीराम रामेति जना ये जपंति च सर्वदा । तेषां भुक्तिश्च-मुक्तिश्च भविष्यति न संशयः ॥ ६ ॥
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता । तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरस्सरम् ॥ ७ ॥
तापत्रयाग्निशमनं सर्वाघौघनिकृंतनम् । दारिद्र्यदुःखशमनं सर्वसंपत्करं शिवम् ॥ ८ ॥
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् । नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९ ॥
अयोध्यानगरे रम्ये रत्‍नमंडपमध्यगे । स्मरेत्कल्पतरोर्मूले रत्‍नसिंहासनं शुभम् ॥ १० ॥
तन्मध्येऽष्टदलं पद्मं नानारत्‍नैश्च वेष्टितम् । स्मरेन्मध्ये दाशरथिं सहस्त्रादित्यतेजसम् ॥ ११ ॥
पितुरंकगतं राममिन्द्रनीलमणिप्रभम् । कोमलांगं विशालाक्षं विद्युद्वर्णांबरावृतम् ॥ १२ ॥
भानुकोटिप्रतीकाशं किरीटेन विराजितम् । रत्‍नग्रैवेयकेयूररत्‍नकुण्डलमंडितम् ॥ १३ ॥
रत्‍नकंकणमंजीरकटिसूत्रैरलंकृतम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४ ॥
दिव्यरत्‍नसमायुक्तमुद्रिकाभिरलंकृतम् । राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५ ॥
तुलसीकुंदमंदारपुष्पमाल्यैरलंकृतम् । कर्पूरागरुकस्तूरिदिव्यगंधानुलेपनम् ॥ १६ ॥
योगाशास्त्रेष्वभिरतं योगेशं योगदायकम् । सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७ ॥
विद्याधरसुराधीशसिद्धगंधर्वकिन्नरैः । योगीन्द्रैर्नारदाद्यैश्‍चस्तूयमानमहर्निशम् ॥ १८ ॥
विश्‍वामित्रवसिष्ठादिमुनिभिः परिसेवितम् । सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ १९ ॥
रामं रघुवरं वीरं धनुर्वेदविशारदम् । मंगलायतनं देवं रामं राजीवलोचनम् ॥ २० ॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् । कौसल्यानंदनं रामं धनुर्बाणधरं हरिम् ॥ २१ ॥
एवं संचियतन् विष्णुं सज्ज्योतिरमलं विभुम् । प्रह्रष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २२ ॥
सर्वलोकहितार्थाय तुष्टाव रघुनंदनम् । कृताञ्जलिपुटो भूत्वा चिंतयन्नद्‌भुतं हरिम् ॥ २३ ॥
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् । यदेकं व्यापकं लोके तद्रूपं चिंतयाम्यहम् ॥ २४ ॥
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५ ॥
कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् । अणोरणीयांसमनंतवीर्यं प्राणेश्‍वरं राममसौ ददर्श ॥ २६ ॥
नारद उवाच ॥ नारायणं जगन्नाथमभिरामं जगत्पतिम् । कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २७ ॥
राजराजं रघुवरं कौसल्यानंदवर्धनम् । भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्‌गुरुम् ॥ २८ ॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् । सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २९ ॥
आदित्यं रविमीशानं घृणिं सूर्यमनामयम् । आनंदरूपिणं सौम्यं राघवं करुणामयम् ॥ ३० ॥
जामदग्निं तपोमूर्ति रामं परशुधारिणम् । वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१ ॥
श्रीशार्ङ्गधारिणं रामं चिन्मयानंदविग्रहम् । हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२ ॥
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् । मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३ ॥
वासुदेवं जगद्योनिमनादिनिधनं हरिम् । गोविंदं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४ ॥
गोगोपालपरीवारं गोपकन्यासमावृतम् । विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३५ ॥
गोगोपिकासमाकीर्ण वेणुवादनतत्परम् । कामरूपं कलावंतं कामिनीकामदं विभुम् ॥ ३६ ॥
मन्मथं मथुरानाथं माधवं मकरध्वजम् । श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३७ ॥
भूतेशं भूपति भद्रं विभूतिं भूमिभूषणम् । सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३८ ॥
श्रीनृसिंहं महाबाहुं महांतं दीप्ततेजसम् । चिदानंदमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९ ॥
आदित्यमंडलगतं निश्‍चितार्थस्वरूपिणम् । भक्‍तिप्रियं पद्मनेत्रं भक्‍तानामीप्सितप्रदम् ॥ ४० ॥
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् । सिंहासने समासीनं नित्यव्रतकल्मषम् ॥ ४१ ॥
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् । यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४२ ॥
सत्यसंधं जितक्रोधं शरणागतवत्सलम् । सर्वक्लेशापहरणं बिभीषणवरप्रदम् ॥ ४३ ॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् । वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४ ॥
नरवानरदेवैश्च सेवितं हनुमत्प्रियम् । शुद्धं सूक्ष्मं परं शांतं तारकब्रह्मरूपिणम् ॥ ४५ ॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् । सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६ ॥
निरामयं निराभासं निरवद्यं निरञ्जनम् । नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४७ ॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् । मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८ ॥
सूर्यमंडलमध्यस्थं रामं सीतासमन्वितम् । नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ४९ ॥
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः । नमोऽस्तु रामदेवाय जगदानंदरूपिणे ॥ ५० ॥
नमो वेदांतनिष्ठाय योगिने ब्रह्मवादिने । मायामयनिरासाय प्रसन्नजनसेविने ॥ ५१ ॥
वंदामहे महेशानचण्डकोदंडखंडनम् । जानकीह्रदयानंदवर्धनं रघुनंदनम् ॥ ५२ ॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनोहरगुणग्रामाय रामात्मने ।
योगारूढमुनींद्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३ ॥
भवोद्भवं वेदविदां वरिष्ठमादित्यचंद्रानलसुप्रभावम् सर्वात्मकं | सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५४ ॥
निरंजनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपंचम् । नित्यं ध्रुवं निर्विषयस्वरूपं निरंतरं राममहं भजामि ॥ ५५ ॥
भवाब्धिपोतं भरताग्रजं तं भक्तिप्रियं भानुकुलप्रदीपम् । भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६ ॥
सर्वाधिपत्यं समरांगधीरं सत्यं चिदानंदमयस्वरूपम् । सत्यं शिवं शांतिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७ ॥
कार्यक्रियाकारणप्रमेयं कविं पुराणं कमलायताक्षम् । कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५८ ॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वंद्वविनाशहेतुम् । महाबलं वेदनिधिं सुरेशं सनातनं राममहं भजामि ॥ ५९ ॥
वेदान्तवेद्यं कविमीशितारमनादिमध्यांतमचिंत्यमाद्यम् । अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥ ६० ॥
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनंतमाद्यम् । अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ६१ ॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमंडलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२ ॥
लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुंदम् । अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥ ६३ ॥
योगिंद्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् । नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥ ६४ ॥
विभूदिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् । अचिंत्यमव्यक्तनंतमूर्ति ज्योतिर्मयं राममहं भजामि ॥ ६५ ॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ६६ ॥
मुनींद्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् । परात्परं यत्परमं पवित्रं नमामि रामं महतो महांतम् ॥ ६७ ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा । आदित्यादिग्रहाश्चैव त्वमेव रघुनंदन ॥ ६८ ॥
तापसा ऋषयः सिद्धा साध्याश्च मरुतस्तथा । विप्रा वेदास्तथा यज्ञाः पुराणं धर्मसंहिताः ॥ ६९ ॥
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च । यक्षराक्षसगंधर्वा दिक्पाला दिग्गजादयः ॥ ७० ॥
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुंगव । वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७१ ॥
तारका द्श दिक् चैव त्वमेव रघुनंदन । सप्त द्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥ ७२ ॥
स्थावरा जंगमाश्चैव त्वमेव रघुनायक । देवतिर्यङमनुष्याणां दानवानां तथैव च ॥ ७३ ॥
माता पिता तथा भ्राता त्वमेव रघुवल्लभ । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७४ ॥
त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम । त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन ॥ ७५ ॥
शांतं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७६ ॥
व्यास उवाच । ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुंगवम् । तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७७ ॥
नारद उवाच । यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे । त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७८ ॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम । अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ७९ ॥
अद्य मे सफलं ज्ञानमद्य मे सफल तपः । अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ।
अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ ८० ॥
त्वत्पादंभोरुहद्वंद्वसद्भक्तिं देहि राघव । ततः परमसंप्रीतः स रामः प्राहनारदम् ॥ ८१ ॥
श्रीराम उवाच । मुनिवर्य महाभाग मुने त्विष्टं ददामि ते । यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति ॥ ८२ ॥
नारद उवाच । परं न याचे रघुनाथ युष्मत्पादाब्जभक्तिः सततं ममास्तु ।
इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे ॥ ८३ ॥
व्यास उवाच । इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् । वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८४ ॥
अद्वैतममलं ज्ञान स्वनामस्मरणं तथा । अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८५ ॥
इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् । सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम् ॥ ८६ ॥
कथितं ब्रह्मपुत्रेण वेदानां सुखमुत्तमम् । गुह्याद् गुह्यतं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८७ ॥
यः पठेच्छृणुयाद्वाऽपि त्रिसन्ध्यं श्रद्धयाऽन्वितः । ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८८ ॥
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा । गोवधाद्युपपापानि अनृतात्संभवानि च ॥ ८९ ॥
सर्वैः प्रमुच्यते पापैः । कल्पायुतशतोद्भवैः । मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९० ॥
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् । इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१ ॥
रामं सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते । तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९२ ॥
श्रीरामचन्द्र रघुपुंगव राजवर्य राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९३ ॥
वैदेहीसहितं सुरद्रमतले हैमे महामंडपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४ ॥
रामं रत्‍नकिरीटकुण्डलयुतं केयूरहारान्वितं सीतालंकृतवामभागममलं सिंहासनस्थं विभुम् ।
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५ ॥
सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेंद्रादिमानम् ।
अहितनृपभयानं सीतया शोभमानं स्मर ह्रदयविमानं ब्रह्म रामाभिधानम् ॥ ९६ ॥
रघुवर तव मूर्तिमार्मके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे ।
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे भवजलनिधिमग्नं रक्ष मामार्तबंधो ॥ ९७ ॥
रामरत्‍नमहं वंदे चित्रकूटपतिं हरिम् । कौसल्याभक्तिसंभूतं जानकीकंठभूषणम् ॥ ९८ ॥
इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामचंद्रस्तवराजस्तोत्रं संपूर्णम् ।

संबंधित माहिती

Maa lakshmi : देवी लक्ष्मीला प्रसन्न करण्यासाठी तुळशीला या 5 वस्तू अर्पण करा

Sita Navami 2024: आज सीता नवमीचे व्रत केल्याने मिळेल मातृत्व

श्री सीता चालीसा : सीता नवमी या एका उपायाने प्रसन्न होईल देवी

Brihaspativar upay गुरुवारी काय करावे काय नाही जाणून घ्या

आरती गुरुवारची

शरद पवार यांनी पीएम नरेंद्र मोदी यांच्यावर टाकला कटाक्ष, म्हणले-'जेव्हा सीएम होते तेव्हा विकास मध्ये रुची होती आणि आता तर बस....'

मधुमेह, हृदय, लिव्हर यासह अनेक आजारांसाठी 41 औषधे स्वस्त करण्याचा केंद्र सरकारचा निर्णय

एमडीएच आणि एव्हरेस्ट मसाल्यांवर नेपाळने बंदी घातली

घरात झोपले होते लोक, कॉलोनीमधील जनरेटरमध्ये लागली आग

निवडणूक आयोगाच्या अधिकाऱ्यांनी घेतली मुख्यमंत्री एकनाथ शिंदे यांचा सामानाची झडती

पुढील लेख
Show comments