Marathi Biodata Maker

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

Sai Ashtottara Shatanamavali श्री शिर्डीसांई अष्टोत्तरशतनामावली

108 names of shirdi sai baba
Sai Ashtottara Shatanamavaliॐ ऐं ह्रीं श्रीं क्लीं साईनाथाय नमः ।
ॐ लक्ष्मीनारायणाय नमः ।
ॐ श्रीरामकृष्णमारुत्यादिरूपाय नमः ।
ॐ शेषशायिने नमः ।
ॐ गोदावरीतटशिरडीवासिने नमः ।
ॐ भक्तहृदालयाय नमः ।
ॐ सर्वहृद्वासिने नमः ।
ॐ भूतावासाय नमः ।
ॐ भूतभविष्यद्भाववर्जिताय नमः ।
ॐ कालातीताय नमः ॥ १०॥
 
ॐ कालाय नमः ।
ॐ कालकालाय नमः ।
ॐ कालदर्प दमनाय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ अमर्त्याय नमः ।
ॐ मर्त्याभयप्रदाय नमः ।
ॐ जीवाधाराय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ भक्तावनसमर्थाय नमः ।
ॐ भक्तावनप्रतिज्ञाय नमः ॥ २०॥
 
ॐ अन्नवस्त्रदाय नमः ।
ॐ आरोग्यक्षेमदाय नमः ।
ॐ धनमाङ्गल्यप्रदाय नमः ।
ॐ ऋद्धिसिद्धिदाय नमः ।
ॐ पुत्रमित्रकलत्रबन्धुदाय नमः ।
ॐ योगक्षेमवहाय नमः ।
ॐ आपद्बान्धवाय नमः ।
ॐ मार्गबन्धवे नमः ।
ॐ भुक्तिमुक्तिस्वर्गापवर्गदाय नमः ।
ॐ प्रियाय नमः ॥ ३०॥
 
ॐ प्रीतिवर्धनाय नमः ।
ॐ अन्तर्यामिने नमः ।
ॐ सच्चिदात्मने नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ परमसुखदाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परमात्मने नमः ।
ॐ ज्ञानस्वरूपिणे नमः ।
ॐ जगतःपित्रे नमः ॥ ४०॥
 
ॐ भक्तानांमातृदातृपितामहाय नमः ।
ॐ भक्ताभयप्रदाय नमः ।
ॐ भक्तपराधीनाय नमः ।
ॐ भक्तानुग्रहकातराय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ भक्तिशक्तिप्रदाय नमः ।
ॐ ज्ञानवैराग्यदाय नमः ।
ॐ प्रेमप्रदाय नमः ।
ॐ संशयहृदय दौर्बल्य पापकर्मवासनाक्षयकराय नमः ।
ॐ हृदयग्रन्थिभेदकाय नमः ॥ ५०॥
 
ॐ कर्मध्वंसिने नमः ।
ॐ शुद्धसत्वस्थिताय नमः ।
ॐ गुणातीतगुणात्मने नमः ।
ॐ अनन्तकल्याणगुणाय नमः ।
ॐ अमितपराक्रमाय नमः ।
ॐ जयिने नमः ।
ॐ दुर्धर्षाक्षोभ्याय नमः ।
ॐ अपराजिताय नमः ।
ॐ त्रिलोकेषु अविघातगतये नमः ।
ॐ अशक्यरहिताय नमः ॥ ६०॥
 
ॐ सर्वशक्तिमूर्तये नमः ।
ॐ सुरूपसुन्दराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ बहुरूपविश्वमूर्तये नमः ।
ॐ अरूपव्यक्ताय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सर्वान्तर्यामिने नमः ।
ॐ मनोवागतीताय नमः ।
ॐ प्रेममूर्तये नमः ॥ ७०॥
 
ॐ सुलभदुर्लभाय नमः ।
ॐ असहायसहायाय नमः ।
ॐ अनाथनाथदीनबन्धवे नमः ।
ॐ सर्वभारभृते नमः ।
ॐ अकर्मानेककर्मासुकर्मिणे नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः ।
ॐ तीर्थाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ सताङ्गतये नमः ।
ॐ सत्परायणाय नमः ॥ ८०॥
 
ॐ लोकनाथाय नमः ।
ॐ पावनानघाय नमः ।
ॐ अमृतांशुवे नमः ।
ॐ भास्करप्रभाय नमः ।
ॐ ब्रह्मचर्यतपश्चर्यादि सुव्रताय नमः ।
ॐ सत्यधर्मपरायणाय नमः ।
ॐ सिद्धेश्वराय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ योगेश्वराय नमः ।
ॐ भगवते नमः ॥ ९०॥
 
ॐ भक्तवत्सलाय नमः ।
ॐ सत्पुरुषाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ सत्यतत्त्वबोधकाय नमः ।
ॐ कामादिषद्वैरिध्वंसिने नमः ।
ॐ अभेदानन्दानुभवप्रदाय नमः ।
ॐ समसर्वमतसम्मताय नमः ।
ॐ श्रीदक्षिणामूर्तये नमः ।
ॐ श्रीवेङ्कटेशरमणाय नमः ।
ॐ अद्भुतानन्दचर्याय नमः ॥ १००॥
 
ॐ प्रपन्नार्तिहराय नमः ।
ॐ संसारसर्वदुःखक्षय कारकाय नमः ।
ॐ सर्ववित्सर्वतोमुखाय नमः ।
ॐ सर्वान्तर्बहिस्थिताय नमः ।
ॐ सर्वमङ्गलकराय नमः ।
ॐ सर्वाभीष्टप्रदाय नमः ।
ॐ समरसन्मार्गस्थापनाय नमः ।
ॐ श्रीसमर्थ सद्गुरु साईनाथाय नमः ॥ १०८॥
 
श्री शिर्डीसाई अष्टोत्तरशतनामावली सम्पूर्णा ।

Share this Story:

Follow Webdunia marathi

पुढील लेख

Guruwar upay गुरुवार वारांचे उपवास आणि व्रत कैवल्य