Marathi Biodata Maker

जीवन्मुक्तानन्दलहरी

Webdunia
बुधवार, 6 ऑगस्ट 2025 (06:35 IST)
पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान सुवेशान स्वर्णालङ्करणकलिताञ्चित्रसद्रुशान ।
स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१॥
वने वृक्षान्पश्यन दलफलभरान्नम्रमुशिखान्घनच्छायाछन्नान बहुलकलकूजद्विजगणान ।
भक्षन घस्रे रात्राववनितलतल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥२॥
कदाचित्प्रासादे क्वचिदपि तु सौधे च धवळे कदाकाले शैले क्वचिदपि च कूले च सरिताम ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥३॥
क्वचिद्वालैः सार्धे करतलजतालैश्च हसितैः क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन ।
क्वचिद्वऐद्धश्चिन्तां क्वचिदपि तदन्यैश्च विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥४॥ 
कदाचिद्विद्वद्भिर्विविधसुपुरानन्दरसिकैः कदाचित्काव्यालङ्कृतरसरसालैः कविवरैः । वदन्वादांस्तकैंरनुमितिपरैस्तार्किकवरैर्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ ५॥ 
कदा ध्यानाभ्यासैः क्वचिदपि सपर्या विकसितैः सुगन्धै सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥६॥
शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसलिलो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥७॥
कदा गङ्गांभोभिः क्वचिदपि च कूपोत्थितजलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः । भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥८॥ 
कदाचिज्जागृत्यां विषयकरणैः संव्यवहरन कदाचित्स्वनस्थानपि च विषयानेव च भजन ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥९॥
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१०॥ 
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥११॥ 
कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१२॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः ।
महाद्वैतं रूपं निजपरविहीनं प्रकटयन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१३॥
क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन । कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१४॥ 
निराकारम क्वापि क्वचिदपि च साकारममलम निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१५॥
कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतसमभ्यासवशतः ।
गतद्वैताभावः शिव शिव शिवेत्येव विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१६॥ 
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपासुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम ।
मुहुर्मज्जन्मज्जन भजति सुकृती चेन्नरवरस्तदा योगी त्यागी कविरिति वदन्तीह कवयः ॥१७॥
मौने मौनी गुणिनि गुणवान पण्डिते पण्डितश्च दीने दीनः सुखिनि सुखवान भोगिनि प्राप्तभोगः ।
मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥१८॥ 
इति श्रीमच्छङ्कराचार्यविरचितां जीवन्मुक्तानन्दलहरी संपूर्णं॥

संबंधित माहिती

सर्व पहा

नवीन

Akshaya Tritiya 2026 : अक्षय तृतीया विशेष नैवेद्यात बनवा या पारंपरिक पाककृती

वरुथिनी एकादशी व्रत कथा Varuthini Ekadashi Katha

ईश्वरप्रार्थनास्तोत्रम् ishvara prarthana-stotram

आरती सोमवारची

Varuthini Ekadashi 2026 वरुथिनी एकादशी व्रत कधी? जाणून घ्या अचूक तारीख, शुभ मुहूर्त आणि पूजेची पद्धत

सर्व पहा

नक्की वाचा

स्वर्ग आणि नरक खरंच असतात का? जाणून घ्या सत्य

Wheat Storage Tips: अशा प्रकारे साठवा गहू; वर्षभर सुरक्षित राहील एकही कीड लागणार नाही

What is Box Breathing फक्त ४ सेकंदात मिळवा मानसिक शांती: जाणून घ्या बॉक्स ब्रीदिंगची जादू

एप्रिल ते जूनच्या सुट्ट्यांमध्ये भारतातील या अद्भुत सणांना आवर्जून भेट द्या; ज्यामुळे तुमची सहल अविस्मरणीय ठरेल

Salt vastu remedies घरात लोक सतत आजारी पडत असतील तर एकदा हे नक्की करुन बघा

पुढील लेख
Show comments