श्री देव्युवाच ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर १ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः २ अथ भोगरूपयोगविघ्नकथनम् नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम् ताम्बूलग्नयययानानि राज्यैश्वर्यविभूतयः हैमं रौप्यं तथा ताम्रं रत्रञ्चागुरुधेनवः पाण्डित्यं वेदशास्त्राणि नृत्यं...