ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यान परायणम । महापापहरं देवं मकाराय नमो नमः ॥३॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम । शिवमेकपदं नित्यं शिकाराय नमो नमः...