त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् । त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥१॥ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वम् शिवार्पणम् ॥२॥ अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम् शिवार्पणम् ॥३॥ शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् । सोमयज्ञमहापुण्यम् ह्येकबिल्वम् शिवार्पणम् ॥४॥ दन्तिकोटिसहस्राणि अश्वमेधशतानि च । कोटिकन्यामहादानम् ह्येकबिल्वम् शिवार्पणम् ॥५॥ ...