Festival Posters

वामनस्तोत्रम्

Webdunia
शुक्रवार, 8 नोव्हेंबर 2024 (12:28 IST)
अदितिरुवाच ।
यज्ञेशयपक्षपुरुषाच्युततीर्थपादतीर्थश्रवःश्रवणमंगलामधेय ।
आपन्नलोकवृजिनोपशमोदयाऽऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ १ ॥
विश्‍वाय विश्‍वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भूम्ने ।
स्वस्थाय शश्‍वदुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणास्त्रिवर्गः ।
ज्ञानं च केवलमनंत भवंति तुष्टोत्त्वत्तो नृणां किमु सपत्‍नजयादिराशीः ॥ ३ ॥
इति श्रीमद्भागवतांतर्गतम वामनस्तोत्रं संपूर्णम् ।
 
**********************
 
श्री दधिवामनस्तोत्रम्
हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥२॥
सुर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥
सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीयुतं संयगप्सरोगणसेवितम् ॥५॥
ऋग्यजुस्सामाथर्वाद्यैः गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैः देवेशैः स्तोत्राराधनतत्परैः ॥६॥
सनकाद्यैः मुनिगणैः स्तूयमानमहर्निशम् ।
त्रियंबको महादेवो नृत्यते यस्य सन्निधौ ॥७॥
दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥८॥
साधकानाम् प्रयच्छन्तं अन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्तेचोत्थाय ध्यायेद्देवमधोक्षजम् ॥९॥
अतिसुविमलगात्रं रुक्मपात्रस्थमन्नम्
सुललितदधिभाण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखान् वामनं भावयेद्यः ॥१०॥
क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ॥११॥
आयुरारोग्यमैश्वर्यं लभते चान्नसंपदः ।
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥१२॥
अक्लेशादन्नसिध्यर्थं ज्ञानसिध्यर्थमेव च ।
अभ्रश्यामः शुद्धयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः
छ्त्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी ॥१३॥
अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये ।
मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः ॥१४॥
श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥१५॥
वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥१६॥

*******************
अदितिरुवाच ।
नमस्ते देवदेवेश सर्वव्यापिन जनार्दन । सत्त्वादिगुणभेदन लोकव्यापारकारण ॥ १ ॥
नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्‌भुतरूपाय निर्गुणाय गुणात्मने ॥ २ ॥
नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मंगलात्मने ॥ ३ ॥
यस्यावतररूपाणि ह्यर्चयन्ति मुनीश्‍वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४ ॥
यं न जानंति श्रुतयो यं न जानंति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५ ॥
यस्यावलोकनं चित्रं मायोप्रद्रववारणम् । जगद्रूपं जगत्पालं तं वंदे पद्मजाधवम् ॥ ६ ॥
यो देवस्त्यक्तसंगानां शांतानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वंदे संगर्विजतम् ॥ ७ ॥
यत्पादाब्जजलक्लिन्नसेवारंजितमस्तकाः । अवापुः परमां सिद्धिं तं वंदे सर्ववंदितम् ॥ ८ ॥
यज्ञेश्‍वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥९ ॥
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वंदे लोकसाक्षिणम् ॥ १० ॥
ब्रह्माद्या अपि ये देव यन्मायापाशयंत्रिताः । न जानंति परं भावं तं वंदे सर्वनायकम् ॥ ११ ॥
ह्रत्पद्मनिलयोऽज्ञानां दुरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वंदे ज्ञानसाक्षिणम् ॥ १२ ॥
यज्मुखाद्‌ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥
मनश्‍चंद्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिंद्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४ ॥
त्वमिंद्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निऋतिश्चैव वरुणस्त्वम दिवाकरः ॥ १५ ॥
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगंधर्वा नद्यो भूमिश्च सागराः ॥ १६ ॥
त्वमेव जगतामीश पुन्नामास्ति परात्परः । त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७ ॥
इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । उवाच प्रांजलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८ ॥
अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकंटकश्रियं देहि मत्सुतानां दिवीकसाम् ॥ १९ ॥
अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २० ॥
तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्राऽस्मिदेवेश रक्षोभिः परिपीडिता ॥ २१ ॥
एतान्न हंतुमिच्छामि मत्सुता दितिजातयः । तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२ ॥
इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ २३ ॥
श्रीभगवानुवाच ।
प्रीतोऽस्मि देवि भद्रं तं भविष्यामि सुतस्तव । यतः सपत्‍नीतनयेष्वपि वात्सल्यशालिनी ॥ २४ ॥
त्वया च मे कृतं स्तोत्रं पठंति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ २५ ॥
अन्ते मत्पदमाप्नोति यद्विष्णो परमं शुभम् ॥ २६ ॥
इति श्रीपद्मपुराने वामनस्तोत्रं समाप्तम ।
 
**********************

संबंधित माहिती

सर्व पहा

नवीन

आरती सोमवारची

Chaitra Gauri 2026: चैत्रांगण चैत्रगौरी पुढे काढली जाणारी रांगोळी

Surya Dev Mantra रविवारी सूर्यदेवाच्या 10 शक्तिशाली मंत्रांचा जप करा, जीवनातील सर्व समस्या नाहीश्या होतील

रविवारची आरती.... जयदेव जयदेव जय (श्री) म्हाळसापती

Chaitra Navratri 2026 मंदिरात नऊ देवींची चमत्कारिक रूपे; मुंब्रा देवी ठाणे

सर्व पहा

नक्की वाचा

देवाची पूजा करतांना कोणते स्तोत्र आवर्जून म्हणावे?

घरात धार्मिक कार्य करतांना कोणती काळजी घ्यावी?

तुमच्या मोबाईल क्रमांकाचा शेवटचा अंक तुमच्यासाठी शुभ आहे का?

Sanskrit Baby Girl Names चैत्र गौरी निमित्त खास! मुलींसाठी गौरी पासून प्रेरित २० नावे अर्थासहित

Delayed Periods २ महिन्यांपासून मासिक पाळी आली नाही? घाबरू नका, स्वयंपाकघरातील हे ५ पदार्थ करतील कमाल

पुढील लेख
Show comments