Festival Posters

श्री दुर्गा सप्तशती पाठ अध्याय 3

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (22:59 IST)
तृतीयोऽध्याय:
ध्यानम्
ॐ उद्य्दभानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम् ॥
'ॐ' ऋषिउवाच ॥१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुर: ।
सेनानीश्‍चिक्षुर: कोपाद्ययौ योद्‍धुमथाम्बिकाम् ॥२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुर: ।
यथा मेरुगिरे: श्रृङ्‌गं तोयवर्षेण तोयद: ॥३॥
तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥४॥
चिच्छेद च धनु: सद्यो ध्वजं चातिसमुच्छ्रितम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगै: ॥५॥
सच्छिन्नधन्वा विरथो हताश्‍वो हतसारथि: ।
अभ्यधावत तां देवीं खड्‌गचर्मधरोऽसुर: ॥६॥
सिंहमाहत्य खड्‌गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥७॥
तस्या: खड्‌गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचन: ॥८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुर: ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥९॥
दृष्ट्‍वा तदापतच्छूलं देवी शूलममुंचत ।
तच्छूलं शतधा तेन नीतं स च महासुर: ॥१०॥
हते तस्मिनमहावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्‍चामरस्त्रिदशार्दन: ॥११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ॥१२॥
भग्नां शक्तिं निपतितां दृष्ट्‌वा क्रोधसमन्वित: ।
चिक्षेप चामर: शूलं बाणैस्तदपि साच्छिनत् ॥१३॥
तत: सिंह: समुत्पत्य गजकुम्भान्तरे स्थित: ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥१४॥
युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणै: ॥१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्‍चामरस्य पृथक्कृतम् ॥१६॥
उदग्रश्‍च रणे देव्या शिलावृक्षादिभिर्हत: ।
दन्तमुष्टितलैश्‍चैव करालश्‍च निपातित: ॥१७॥
देवी क्रुद्धा गदापातैश्‍चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥१८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥
बिडालस्यासिना कायात्पातयामास वै शिर: ।
दुर्धरं दुर्मुखं चोभौ शरौर्निन्ये यमक्षयम् ॥२०॥
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुर: ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥२१॥
कांश्‍चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्‌गूलताडितांश्‍चान्यांछृङ्‌गाभ्या च विदारितान् ॥२२॥
वेगेन कांश्र्चिदपरान्नादेन भ्रमणेन च ।
नि:श्वासपवनेनान्यान् पातयामास भूतले ॥२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुर: ।
सिंहं हन्तुं महादेव्या: कोपं चक्रे ततोऽम्बिका॥२४॥
सोऽपि कोपन्महावीर्य: खुरक्षण्णमहीतल: ।
श्रृङ्‌गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥२५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्‌गूलेनाहतश्‍चाब्धि: प्लावयामास सर्वत: ॥२६॥
धुतश्रृङ्‌गविभिन्नाश्‍च खण्डं खण्डं ययुर्घना: ।
श्वासानिलास्ता: शतशो निपेतुर्नभसोऽचला: ॥२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्‌वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥२९॥
तत: सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिर: ।
छिनत्ति तावत्पुरुष: खड्‌गपाणिरदृश्यत ॥३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकै: ।
तं खड्‌गचर्मणा सार्द्धं तत: सोऽभून्महागज: ॥३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्‌गेन निरकृन्तत ॥३२॥
ततो महासुरो भूयो माहिषं वपुरास्थित: ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥
तत: क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुन: पुनश्‍चैव जहासारुणलोचना ॥३४॥
ननर्द चासुर: सोऽपि बलवीर्यमदोद्‌धत: ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूध-रान् ॥३५॥
सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करै: ।
उवाचं तं मदोद्‌धृतमुखरागाकुलाक्षरम् ॥३६॥
देव्युवाच ॥३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवता: ॥३८॥
ऋषिरुवाच ॥३९॥
एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥४०॥
तत: सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्तत: ।
अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृत: ॥४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुर: ।
तया महासिना देव्या शिरश्छित्त्वा निपातित: ॥४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मु: सकला देवतागणा: ॥४३॥
तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभि: ।
जगुर्गन्धर्वपतयो ननृतुश्‍चाप्सरोगणा: ॥४४॥
इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्याय: ॥३॥
उवाच ३, श्लोका: ४१, एवम् ४४,
एवमादित: २१७ ॥

संबंधित माहिती

सर्व पहा

नवीन

Basaveshwar Jayanti 2026 महात्मा बसवेश्वर: ८०० वर्षांपूर्वी 'लोकशाही' मांडणारा क्रांतीसुर्य!

Vinayak Chaturthi 2026 विनायक चतुर्थीच्या दिवशी काय करावे आणि काय करू नये?

नमश्शिवाय भुजंगम् Namashivaya Bhujangam

Mahadev Mantra महादेवाचे मंत्र सोमवारी नक्की जपावे

Mahadev Aarti शंकराची आरती : लवथवती विक्राळा ब्रह्मांडी माळा

सर्व पहा

नक्की वाचा

ताकाचे 5 वेगवेगळे प्रकार (डायटसाठी बेस्ट)

कल्की अवतार आणि तिसरे महायुद्ध: या दोन्हींमध्ये काही संबंध आहे का? या प्रमुख घटना केव्हा आणि कशा घडतील?

लग्नाआधी हे प्रश्न नक्की विचारा, नाहीतर आयुष्यभर पश्चात्ताप होऊ शकतो!

उन्हाळ्यात तुळशीची काळजी कशी घ्यावी?

१९ ते २५ एप्रिल २०२६ चे साप्ताहिक राशीभविष्य

पुढील लेख
Show comments