Marathi Biodata Maker

अहल्याकृतरामस्तोत्रम्

Webdunia
रविवार, 14 एप्रिल 2024 (04:32 IST)
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्त्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥
यत्पादपङकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥
यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं ह्रदि भावयामि ॥ ५ ॥
यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखाः शिवपद्मजाद्याः ।
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥
सोऽयं परात्मा पुरुषः पुराण एष स्वयं ज्योतिरनंत आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिंबितो यः । वि
रिंचिविष्ण्वीश्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥ ८ ॥
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रियां धृतं वक्षसि लालितं प्रियात् ।
आक्रांतमेकेन जगत्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९ ॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंबद्ध एको भाति भवान्परः ॥ १० ॥
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥
कार्यकारणकर्तृत्वफलसाधनभेदतः ।
एको विभासि रामस्त्वं मायया बहुरूपया ॥ १२ ॥
त्वन्मायामोहितधियस्त्वां न जानंति तत्त्वतः ।
मानुषं त्वभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३ ॥
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः । अ
सङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । त
स्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । न
मस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्‍नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥
पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च ।
संवत्सरेण लभते वंध्या ह्यपि सुपुत्रकम् ॥ २१ ॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२ ॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मा
तृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः नित्यं स्तोत्रमिदं जपन् रघुपतिं
भक्त्या ह्रदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥
इति श्रीमदध्यात्मरामायण उमामहेश्वरसंवादे बालकाण्डांतर्गतमहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ।

संबंधित माहिती

सर्व पहा

नवीन

Ganga Dussehra 2026 Wishes in Marathi गंगा दशहरा शुभेच्छा संदेश

शुक्रवारी कोणत्या मंत्राचा जप करावा?

आरती शुक्रवारची

शास्त्रोक्त पद्धत: गणपतीला २१ तर शंकराला ११ पदरी वात का? ३६५ पदरी 'देहवात' आणि 'ब्रम्हांडवाता'चे गूढ काय?

आरती गुरुवारची

सर्व पहा

नक्की वाचा

अधिक मासात मुलीने आईची ओटी का भरावी? जाणून घ्या धार्मिक कारण

Adhik Maas 2026 Upay अधिक मासात ३३ दिवे लावण्यामागील रहस्य: ३३ कोटी देवतांचा आशीर्वाद प्राप्त करा

तणाव व्यवस्थापन करण्यासाठी जीवनशैलीत हे बदल करा

इयत्ता ११वीत विज्ञान, वाणिज्य की कला तुमच्यासाठी कोणती शाखा सर्वोत्तम आहे जाणून घ्या

रेशमी साडी खरेदी करताना फसवणुकीला बळी पडू नका, अशी तपासा

पुढील लेख
Show comments