ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ । वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥१॥ श्रीः धन्यं मंगल्यमायुष्यं अलक्ष्मीकलिनाशनम् । रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥२॥ अ अयोध्यधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः । राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥ आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः । शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥४॥ इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया ।...