अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥२॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥ चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् । मत्तमातङ्गगमनम् मत्तहंसवधूगताम् ॥५॥ चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् । चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥६॥ शरणागतगोप्तारं प्रणिपादप्रसादिकाम्...