Dharma Sangrah

श्रीरामभद्रस्तोत्रम्

Webdunia
रविवार, 14 एप्रिल 2024 (07:33 IST)
श्रीमद्रामपदारविन्दमधु ये भृङगाः सरागा अमी ।
सेवन्ते सनकाः शुकादिमुनयस्तेषां न काचित्स्पृहा ॥
श्रीमद्रामपदारविन्दमधुनो जानन्ति वै ते रसम् ।
तत्स्वादात्परसौख्यदा भवति या सा स्यात्‍स्थितिर्नः सदा ॥
 
ईशावास्यमिदं जगद्‌भवति भो जीवाः सुखान्वेषकाः ।
नास्त्यस्मिन्सुखलेश इत्यत इह ब्रूते श्रुतिर्मा गृधः ॥
भुज्जीथा नितरां च रामपदवीं त्यक्‍तेन तेनाधुना ।
मोहो नास्ति न शोक इत्यपि भवेदेकात्मतादर्शने ॥
 
शिष्यः पृच्छति केन खानि च मनः प्राणा गुरो चेशिताः ।
यच्छ्रोत्रं श्रवणस्य वाक्च वचसश्‍चित्तस्य चेतोऽपि तत् ॥
चक्षुर्गच्छति नो मनो न च वचो यत्रास्ति तत्को वदेत् ।
एतत्तत्प्रभुरामरुपमगुणं यक्षात्मकं सर्वभृत् ॥
 
श्रेयः प्रेय इति द्वयं खलु तयोस्तच्छ्रेय एवाभयम् ।
धीरो यस्तु विरक्‍त चित्तविलसन् धन्यः कृती चात्मवित् ॥
सूर्याचंद्रमसौ न यत्र हुतभुग् रामस्य तस्मिन पदे ।
शुद्धे शुद्धजलं यथा भवति स स्वात्मैव वक्‍ति श्रुतिः ॥
 
तं वेद्यं पुरुषं हि वेदनपरं वेद्यं न तन्मृत्युभीः ।
योऽस्यामेव तनौ विभाति सततं शुभ्‍रो भवत्यक्षरः ॥
यज्ज्ञात्वा मुदमश्‍नुतेऽत्र सकलं भद्रञ्च सर्वज्ञताम् ।
तच्छ्रीरामपदस्वरुपममलं ज्ञेयं च गेयं पुनः ॥
 
यज्ज्ञानाद्विदितं जगत्तदविकृद्रामस्वरुपं स्वयम् ।
विज्ञाय स्वगुरोर्मुखात्परमितो भिन्नं न वेत्ति क्वचित् ॥
सिन्धुं प्राप्य यथा न मुञ्चति नदी विद्वान परं विन्दते ।
यो वै तत्परमं च वेद सततं ब्रह्मैव स ब्रह्मवित् ॥
 
ॐकारं व्यभजच्छुतिर्वदति तद्‌भूतं भविष्यद् भवत् ।
जीवेशौ च विभावयत्यपि पुनर्ब्रूते तयोरेकताम् ॥
यज्ज्ञात्वा नितरामभिन्नपदवीं प्राप्‍नोत्यमात्रां शिवाम् ।
शुद्धं तुर्यमिदं स्फुटं परमिति श्रीरामभद्रोऽव्ययः ॥
 
संसारस्य च रेरिवा मम तु या कीर्तिर्गिरेरुन्नता ।
यत्तूर्ध्वं जगतोऽस्य मूलमिति तद् ब्रह्मात्र मद्रूपकम् ॥
यज्ज्ञात्वा स्वमृतं परं विभुरहं ब्रूते त्रिशङकुर्यतः ।
तच्छ्रीरामपदारविन्दभजने किं वा भवेद्दुर्घटम् ॥
 
आनन्दान्समुदीर्य यान्बहुविधान् ब्राह्मान् परांश्‍चापरान् ।
सत्यं ज्ञानमनन्तमक्षरमहं यो वेद निष्कामतः ॥
सर्वान् सोश्‍नुत इत्यपि श्रुतिरहो ब्रूते परं विन्दते ।
तच्छ्रीरामपदं भजध्वमधुना ब्रह्मैव यन्निर्भयम् ॥
 
यत्सृष्टिर्स्थितिपालनं विदलनं घृत्वाऽपि साक्षी स्वयम् ।
अन्नप्राणमनोमतिभ्यैतरच्चानन्दकोशातिगम् ॥
यन्मायारहितं चकास्तिसततं कार्यं न यस्मिन् क्वचित् ।
तच्छ्रीरामपदं भजामि नितरामानन्दमात्रं शिवम् ॥
 
येनेदं मन इन्द्रियाणि च तथा प्राणा जगज्जायते ।
जन्मादिष्वपि जाग्रदादिषु तथा यज्ज्ञापकं विस्फुटम् ॥
यस्मिन्सर्वमिदं प्रतिष्ठितमहो रज्ज्वां यथाहेभ्रमः ।
प्रज्ञानं प्रभुरामरुपमचलं तच्चिन्तये सिद्धये ॥
 
यो भूमा सुखमद्वितीयमधुना जानीहि तत्त्व बृहत् ।
तच्छ्रीराम पदात्मरुपमिति यत् सूक्ष्माच्च सूक्ष्मं परम् ॥
श्रद्धत्स्वेति पुनश्‍च तत्त्वमसि भो ब्रूते श्रुतिनैकधा ।
ज्ञात्वा स्वल्पमिदं हि मर्त्यमिह यत्सत्यं भजेतत्पदम् ॥
 
ब्रह्माग्रे तदवेदहं पुनरिदं तत्सर्वमेवाभवत् ।
नास्त्य स्मादपर यतः पुनरिदं ब्रह्मैव सर्वं खलु ॥
तद्योऽबुध्यत सोऽभवत्तदपरं नासीत्स एवाद्वयः ।
ज्ञात्वा श्री गुरुरामरुपमभयं चाश्रित्य धन्या वयम् ॥
 
इति श्रीसमर्थरामदासांनुगृहीत श्रीरामचंद्रचरनारविन्दभृङगायमान
श्रीश्रीधरस्वामीविरचितं दशोपनिषत्सारं
श्रीरामभद्रस्तोत्रम् संपूर्णम् ॥
॥श्रीरामो विजयतेतराम् ॥

संबंधित माहिती

सर्व पहा

नवीन

कर्जमुक्तीसाठी मंगळवारी करा 'ऋणमोचक मंगल स्तोत्राचा' पाठ; जाणून घ्या अचूक विधी आणि महत्त्व

Holi Special Tourism Maharashtra होळी साजरी करण्यासाठी महाराष्ट्रातील उत्तम ठिकाणे

आरती मंगळवारची

Holika Dahan 2026: कर्जामुळे त्रस्त आहात? होळीच्या चमत्कारिक उपाय, लगेच मिळेल समाधान

Gadge Baba Suvichar संत गाडगे बाबा दशसूत्री संदेश जीवनासाठी अत्यंत उपयुक्त

सर्व पहा

नक्की वाचा

Shiv Jayanti 2026 Slogan in Marathi छत्रपती शिवाजी महाराज घोषवाक्य मराठी

Royal Baby Names मुलींसाठी छत्रपती शिवाजी महाराजांच्या नावावरून प्रेरित आधुनिक आणि अर्थपूर्ण नावे

Ramadan 2026 रमजान मध्ये कधीपासून? तारखा, महत्त्व आणि रोजाचे नियम जाणून घ्या

Mangal gochar 2026: कुंभ राशीत मंगळाचा प्रवेश, या राशींचे उजळणार नशीब; तुमच्या राशीवर काय होणार परिणाम?

किडनीच्या रुग्णांनी या भाज्याचे सेवन करू नये, समस्या वाढेल

पुढील लेख
Show comments