श्रीरामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥ राक्षसान्तकरो धीरो भक्तभाग्यविवर्धनः ॥१॥ मरेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥ जन्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥ यदा यदा भवेद्ग्लानिर्धर्मस्य च तदा तदा ॥ राक्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥ महामोहकरी माया यत्प्रसादाद्विनश्यति ॥ जघन्या अपि पूजाश्च पावना बहवोऽभवन् ॥४॥ यस्य प्रसादतो जातो हनूमान् महतो महान् ॥ जन्ममृत्युजरादुःखान्मुक्तोऽद्यापिविराजते ॥५॥...