राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥१॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥२॥ विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥३॥ ज्ञानभाव्योऽपरिच्छेद्योवाग्मीसत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥४॥ द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥५॥ ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः ।...