Marathi Biodata Maker

श्रीरामाष्टोत्तरशतनामस्तोत्रं

Webdunia
रविवार, 14 एप्रिल 2024 (19:04 IST)
श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः । राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥१॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥२॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः । सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥३॥
कौसलेयः खरध्वंसी विराधवधपण्डितः । विभीषणपरित्राता हरकोदण्डखण्डनः ॥४॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः । जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥५॥
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् । दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥६॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥७॥
अहल्याशापशमनः पितृभक्तो वरप्रदः । जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥८॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः । जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥९॥
सर्वदेवादिदेवश्च मृतवानरजीवनः । मायामारीचहन्ता च महादेवो महाभुजः ॥१०॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः । महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥११॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः । आदिदेवो महादेवो महापूरुष एव च ॥१२॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः । स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥१३॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः । मायामानुषचारित्रो महादेवादिपूजितः ॥१४॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः । श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥१५॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः । शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥१६॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः । परं ज्योतिः परंधाम पराकाशः परात्परः ॥१७॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
॥ इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

संबंधित माहिती

सर्व पहा

नवीन

Holi Dahan 2026 होळी दहन करतांना अर्पण केला जाणारा मुख्य नैवेद्य

Holi Special ओठावर ठेवताच विरघळणारी रसाळ पाकातील करंजी

Holika Dahan 2026 : २ मार्च रोजी होलिका दहन करावे की नाही? योग्य तारीख आणि शुभ वेळ जाणून घ्या

Holi Arti in Marathi होळीला या आरत्या म्हणा, देवांची आराधना करा

Holi 2026 होळी विशेष नैवेद्याच्या ताटात महत्त्वाचे पारंपारिक पदार्थ पाककृती

सर्व पहा

नक्की वाचा

Marathi Language History मराठी भाषेचा ऐतिहासिक प्रवास: प्राचीन उगम ते अभिजात दर्जा

महानदी कोलफिल्ड्समध्ये विविध पदांसाठी भरती, पात्रता जाणून घ्या

तुमच्या मुलाला प्रत्येक छोट्या गोष्टीवर राग येतो, अशा प्रकारे शांत करा

तेनालीराम कहाणी : पाच शब्द

Dhulandi 2026: धुलेंडीला करा या '५' गोष्टी; उघडतील प्रगतीचे दरवाजे!

पुढील लेख
Show comments