suvichar

श्रीरामचारित्रमञ्जरी

Webdunia
गुरूवार, 11 एप्रिल 2024 (22:52 IST)
श्रीमत्सुधीन्द्रकरकमलसंजात -श्रीमद्राघवेन्द्रयतिकृता
 
श्रीमान् विष्णुः प्रजातो दशरथनृपते रामनाथोऽथ नीतो विश्वामित्रेण मन्त्राहृदनुजसहितस्ताटकघातुकोऽस्त्रम् ।
ब्राह्माद्यं प्राप्य हत्वा निशिचरनिकरं यज्ञपालो विमोच्या-हल्यां शापाच्च भङ्क्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत् ॥१॥
आयन् रामः सभार्योध्वनि निजसहजैर्भार्गवेष्वासरोषा-द्धत्वा सुरारिं पुरग उत नुतस्तापसैर्भूपपृष्ठैः ।
कल्याणानन्तधर्मोऽगुणलवरहितः प्राणिनामन्तरात्मे-त्याद्युक्तश्चाभिषेके पुरजनमहितो मह्यतां मे वचोभिः ॥२॥
कैकेयीप्रीतिहेतोः स सहजनृपजोवल्कली यानरण्यं गङ्गातारी गुहार्च्यः कृतरुचिरजटो गीष्पतेः पुत्रमान्यः ।
तीर्त्वा कृष्णां प्रयातोऽवतु निजममलं चित्रकूटं प्रपन्नं स्वाम्बाभिर्भ्रातरं तं श्रुतजनकगतिः सान्त्वयन् न्युप्ततीर्थः ॥३॥
दत्वाऽस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रं व्यस्याराज्योऽत्रिनाम्नो वनमथ समितो दण्डकं तापसेष्टम् ।
कुर्वन् हत्वा विराधं खलकुलदमनं याचितस्तपसाग्र्यै-स्तेषां दत्त्वाऽभयं स्वानसिधनुरिषुधीन् यानगस्त्त्यात् स पायात् ॥४॥
आसीनः पञ्चवट्यामकुरुत विकृतां राक्षसीं यो द्विसप्त-क्रव्यादानप्यनेकानथ खरमवधीद् दूषणं च त्रिशीर्षम् ।
मारीचं मार्गरूपं दशवदनहृतामाकृतिं भूमिजां यां अन्विष्यन्नार्तगृध्रं स्वगतिमथ नयन् मामवेत् घ्नन् कबन्धम् ॥५॥
पम्पातीरं स गच्छन्निह कृतवसतिर्भक्तितुष्टः शबर्यै दत्वा मुक्तिं प्रकुर्वन् हनुमत उदितं प्राप्तसुग्रीवसख्यः ।
सप्त च्छित्वा सालान् विधिवरबलिनो वालिभित्सूर्यसूनुं कुर्वाणो राज्यपालं समवतु निवसन् माल्यवत्कन्दरेसौ ॥६॥
नीत्वा मासान् कपीशानिह दश हरितः प्रेष्य सीतां विचित्या-यातश्रीमद्धनूमद्गिरमथ समनुश्रुत्य गच्छन् कपीन्द्रैः ।
सुग्रीवाद्यैरसंख्यैर्दशमुखसहजं मानयन्नब्धिवाचा दैत्यघ्नः सेतुकारी रिपुपुररुदवेद्वानैर्वैरिघाती ॥७॥
भग्नं कृत्वा दशास्यं गुरुतरवपुषं कुम्भकर्णं निहत्य प्रध्वस्ताशेषनागं पदकमलनतं तार्क्ष्यमानन्द्य रामः ।
सर्वानुज्जीवयन्तं गिरिधरमनघश्चाञ्जनेयं कपीन् स्वान् विज्ञानास्त्रेण रक्षन् समवतु दमयंल्लक्ष्मणाच्छक्रशत्रुम् ॥८॥
क्रव्यादान् घ्नन्न्संख्यानपि दशवदनं ब्रह्मपूर्वैः सुरेशैः पुष्पैराकीर्यमाणो हुतवहविमलमाप्य सीतां विधाय ।
रक्षोनाथं स्वभक्तं स्वपुरमथ गतः पुष्पकस्थः समस्तैः साम्रज्ये चाभिषिक्तो निजजनमखिलं मानयन् मे गतिः स्यात् ॥९॥
रक्षन् क्षोणीं समृद्धां नुत उत मुनिभिर्मानयन् वायुसूनुं प्रेष्यादित्यात्मजादीन् व्यतनुत भरतं यौवराज्येऽनुमान्य ।
कार्ये सौमित्रिमार्तश्वगदितकृदरिघ्नोऽथ शत्रुघ्नो यो हत्वाऽसौ दुष्टशूद्रं द्विजसुतगुबवेत् कुंभजान्मालभारी ॥१०॥
यज्ञं तन्वन् त्रिकोटीर्व्यतुदत भरताद्यैः सुरानीशवाक्या-द्यास्यन् धामात्रिपुरं भुजिमथ स नयन्नात्मसून् स्वराज्ये ।
कॄत्वा श्रीह्रीहनूमद् धृतविमलचलच्चामरच्छत्रशोभी ब्रह्माद्यैः स्तूयमानो निजपुरविलसत्पादपद्मोऽवतान्माम् ॥११॥
इति श्रीरामचरित्रमञ्जरी लेशतः कृता । राघ्वेन्द्रेण यतिना भूयाद्रामप्रसाददा ॥१२॥
 
 ॥इति श्रीमत्सुधीन्द्रकरकमलसञ्जात राघवेन्द्रयतिकृता श्रीरामचारित्रमञ्जरी संपूर्णा ॥

संबंधित माहिती

सर्व पहा

नवीन

घरात मैदा नाही का? गव्हाच्या पिठापासून कुरकुरीत करंज्या बनवा

मंदिरात मूर्तीच्या पाठीमागे डोकं का टेकवू नये? जाणून घ्या त्यामागील 'धुंधकारी'ची कथा आणि आध्यात्मिक शास्त्र!

Masan Holi 2026 काशीची मसान होळी, मृत्यूचा उत्सव आणि अघोरी भक्तीचा सोहळा!

New flavors of Karanji; यंदाच्या होळीला पारंपारिक करंजीचे हे हटके फ्लेवर्स नक्की बनवून पाहा

शनिवारी हे 5 मंत्र जपा, शनीची कृपादृष्टी मिळवा

सर्व पहा

नक्की वाचा

Marathi Language History मराठी भाषेचा ऐतिहासिक प्रवास: प्राचीन उगम ते अभिजात दर्जा

महानदी कोलफिल्ड्समध्ये विविध पदांसाठी भरती, पात्रता जाणून घ्या

तुमच्या मुलाला प्रत्येक छोट्या गोष्टीवर राग येतो, अशा प्रकारे शांत करा

तेनालीराम कहाणी : पाच शब्द

Dhulandi 2026: धुलेंडीला करा या '५' गोष्टी; उघडतील प्रगतीचे दरवाजे!

पुढील लेख
Show comments