Webdunia - Bharat's app for daily news and videos

Install App

रामगीता

Webdunia
श्री महादेव उवाच :
ततो जगन्मंगलमंगलात्मना विधाय रामायण कीर्तिमुत्तमाम्‌ ।
चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥१॥
सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः।
राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥२॥
कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम्‌।
सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत्‌ ॥३॥

सौमित्रिरुवाच :
त्वं शुद्धबोधोऽसि हि सर्वदेहिनामात्माऽस्यधीशोऽसि निराकृतिः स्वयम्‌।
प्रतीयसे ज्ञानदृशां महामते पादाब्जभृंगाहित संगसंगिनाम्‌ ॥४॥
अहं प्रपन्नोऽस्मि पदांबुजं प्रभो भवापवर्गं तव योगिभावितम्‌ ।
यथाऽञ्जसाऽज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम्‌ ॥५॥
श्रुत्वाऽथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः।
विज्ञानमज्ञानतमोपशांतये श्रुतिप्रपन्नं क्षितिपालभूषणः ॥६॥

श्रीराम उवाच :
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः ।
समाप्य तत्वपूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये ॥७॥
क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः ।
धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रिया चक्रवदीर्यते भवः ॥८॥
अज्ञानमेवास्य हि मूलकारणं तद्धानमेवात्र विधौ विधीयते ।
विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम्‌ ॥९॥
नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमुद्भवेत्‌ ।
ततः पुनः संसृतिरप्यवारिता तस्मातबुधो ज्ञानविचारवान भवेत्‌ ॥१०॥
ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम्‌ ।
कर्तव्यता प्राणभृतः प्रचोदिता विद्या सहायत्वमुपैति सा पुनः ॥११॥
कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
ननु स्वतंत्रा ध्रुव कार्यकारिणी विघ्ना न किंचिन्मनस्राऽप्यपेक्षते ॥१२॥
न सत्यकार्येऽपि पि यद्वद्ध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान्‌ ।
तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥१३॥
केचिद्वदन्तीति वितर्कवादिनस्तदप्यसंदृष्टविरोधकारणात्‌ ।
देहाभिमानादभिबर्धते क्रिया विद्या गताहंकृतितः प्रसिद्धयति ॥१४॥
विशुद्धविज्ञानविरेचनांचिता विद्यात्मवृत्तिश्चरमेति भण्यते ।
उदेति कर्माखिलकारकादिभिर्निहंति विद्याऽखिलकारकादिकम्‌ ॥१५॥
तस्मात्त्येत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत्‌ ।
आत्मानुसंधानपरायणः सदा निवृत्तसर्वेन्द्रियव्रत्तिगोचरः ॥१६॥
यावच्छरीरादिषु मायायाऽऽत्मधीस्तावद्विधेयी विधिवादकर्मणाम्‌ ।
नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परात्मानमथ त्येजेत्क्रियाः ॥१७॥
यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम्‌ ।
तदैव माया प्रविलीयतेंऽजसा सकारकाकारणमात्मंसृतेः ॥१८॥
श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी ।
विज्ञानमात्रादमलाद्द्वितीयतस्तस्माद विद्या न पुनर्भविष्यति ॥१९॥
यदि स्म नष्टा न पुनः प्रसूयते कर्ताहमस्येति मतिः कथं भवेत ।
तस्मात्स्वतंत्रा न किमप्यपेज्ञते विद्या विमोक्षाय बिभाति केवला ॥२०॥
सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशास्ताखिलकर्मणां स्फुटम्‌ ।
एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्म साधनम्‌ ॥२१॥
वद्यासमत्वेन तु दर्शितस्त्वया ऋतुर्न दृष्टान्त उदाहृतः समः ।
फलैः पृथक्त्वाद्वहुकारकैः क्रतुः संसाध्यते ज्ञानमतो विपययम्‌ ॥२२॥
सप्रत्यवायो ह्यहमित्यनात्मधरीज्ञप्रसिद्धा न तु तत्वदर्शिनः ।
तस्माद्बुधैस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्म विधिप्रकाशितम्‌ ॥२३॥
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः ।
विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकम्पनः ॥२४॥
आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः ।
तत्वम्पदार्थौ परमात्मजीवकावसीति चैकात्म्यमथानयोर्भवेत्‌ ॥२५॥
प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय संगृह्म तयोश्चिदात्मताम्‌ ।
संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत्‌ ॥२६॥
एकात्मकत्वाज्जहती न सम्भवेत्थाऽजहल्लक्षप्पता विरोधतः ।
सोऽयं पदार्थाविव भागलक्षणायुज्येत तत्वम्पदयोदोषतः ॥२७॥
रसादिपंचीकृतभूतसम्भवं भोगालयं दुःखसुखादिकर्मणाम्‌ ।
शरीरमाद्यन्तवदादिकर्मजं मायामयं स्थूलमुपाधिमात्मनः ॥२८॥
सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं प्राणैरपंचीकृतभूतसम्भवम्‌ ।
भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधाः ॥२९॥
अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम्‌ ।
उपाधि भेदात्तु यतः पृथक्‌स्थितं स्वात्मानमात्मन्यवधारयेत्क्रमात्‌ ॥३०॥
काशेषु पंचस्वपि तत्दाकृतिर्बिभाति संगात्स्फटि कोपलो यथा ।
असंगरुपोऽय मजो यतोऽद्वयो विज्ञायतेऽस्मिन्परितो विचारिते ॥३१॥
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयाऽऽत्मनः ।
अन्योन्यतोऽस्मिन्‌ व्यभिचारतो मृषा नित्ये परे ब्रह्माणि केवले शिवे ॥३२॥


देहेन्द्रियप्राण मनश्चिदात्मानं संघादजस्रं परिवर्तते धियः ।
वृत्तिस्तमोमूलतयाऽज्ञलक्षणायावद्भवेत्तावदसौ भवोद्भवः ॥३३॥
नेतिप्रमाणेन निराकृताखिलो हृदा समास्वादितचिद्धनामृतः ।
त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाऽम्भः प्रजहाति तत्फलम्‌ ॥३४॥
कदाचिदात्मा न मृतो न जायते न क्षीयते नापि विवर्धतेऽनवः ।
निरस्तसर्वातिशयः सुखात्मकः स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥३५॥
एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते ।
अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयते विरोधतः क्षणात्‌ ॥३६॥
यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुं विपश्चितः ।
असर्पभूतेऽहिविभावनं यथा रज्जवादिके तद्वपपीश्वरे जगत्‌ ॥३७॥
विकल्पमायारहिते चिदात्मकेऽहंकार एष प्रथमः प्रकल्पितः ।
अव्यास एवात्मनि सर्वकारणे निरामये ब्रह्माणि केवले पर ॥३८॥
इच्छादिगारादि सुखादिधर्मिकाः सदा धियः संसृतिहेतवः परे ।
यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥३९॥
अनाद्यविद्योद्भवबुद्धिबिम्बितो जीवः प्रकाशोऽयमितीर्यते चितः ।
आत्माधियः साक्षितया पृथक्‌ स्थितो बुद्ध या परिच्छिन्नपरः स एव हि ॥४०॥
चिद्विम्बसाक्षात्मधियां प्रसंगस्त्वेकत्र वासादनालाक्तालोहवत्‌ ।
अन्योन्यमध्यासवाश्तप्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥४१॥
गुरोः सकाशादपि वेदवाक्यतः संजातविद्यानुभवो निरीक्ष्य तम्‌ ।
स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम्‌ ॥४२॥
प्रकाशरूपोऽहमजोऽहमद्वोऽकृद्विभातोऽहमतीव निर्मलः ।
विशुद्धविज्ञाननो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥४३॥
सदैव मुक्तोऽहमचित्यं शक्तिमानतींद्रियज्ञानमविक्रियात्मकः ।
अनंतपारोऽहमहर्निशं बुधैर्बिभावितोऽहं हृदि वेदवादिभिः ॥४४॥
एवं सदाऽऽत्मानमखंडितात्मना विचारमाणस्य विशुद्ध भावना ।
हन्याद विद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥४५॥
विविक्त आसीन उपारतेंद्रियो विनिर्जितात्मा विमलांतराशयः ।
विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥४६॥
पूर्वे समाघेरखिलं विचिन्तयेदोंकारमंत्रं सचराचरं जगत्‌ ।
तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः ॥४८॥
अकारसंज्ञः पुरुषो हि विश्वतो ह्मुकारकरतैजस ईर्यते क्रमात्‌ ।
प्राज्ञो मकारः परपठयतेऽखिलैः समाधिपूर्वं न तु तत्वतो भवेत्‌ ॥४९॥
विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितम्‌ ।
ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चांतिमम्‌ ॥५०॥
मकारप्यात्मनि चिद्धने परे विलापयेत्प्रामपीह कारणम्‌ ।
सोऽहं परं ब्रह्म सदा विमुक्तिमद्विज्ञानदृङ् मुक्त उपाधितोऽमलः ॥५१॥
एवं सदा जातपरात्मभावनः स्वानंदतुष्टः परिविस्मताखिलः ।
आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत्‌ ॥५२॥
एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेन्द्रियगोचरस्य हि ।
विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मनः ॥५३॥
ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः ।
प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥५४॥
आदौ च मध्ये च तथैव चांततो भवं विदित्वा भयशोककारणम्‌ ।
हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम्‌ ॥५५॥
आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयाऽऽस्मना तदा ।
यथा जलं वारिनिधौ यथा पयः क्षीरे वियव्द्योम्न्यनिले यथाऽनिलः ॥५६॥
इत्थं यदीज्ञेत हि लोकसंस्थितौ जगन्मृषैवेति विभावयन्मुनिः ।
निराकृतत्वाच्छु तियुक्तिमानतो यथेंदुभेदो दिशि दिग्भ्रमादयः ॥५७॥
यावन्ना पश्येदखिलं मदात्मकं तावन्मदराधनतत्परो भवेत्‌ ।
श्रद्धालुरत्यूर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ॥५८॥
रहस्यमेतच्छु तिसारसंग्रहं मया विनिश्चित्य तवोदितं प्रिय ।
यस्त्वेतदालोचयतोह बुद्धिमान्‌ स मुच्यते पातकराशिभिः क्षणात्‌ ॥५९॥
भ्रातर्यदीदं परिदृश्यते जगन्मायैव सर्वं परिहृत्य चेतसा ।
मद्भावनाभावितशुद्धमानसः सुखीभवानन्दमयो निरामयः ॥६०॥
यः सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम्‌ ।
सोऽहं स्वपादांचितरेणुभिः स्पृशन्पुनाति लोकत्रितयं यथा रविः ॥६१॥
विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव गीतम्‌ ।
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥६२॥

॥ श्रीमदध्यात्मरामायणे उत्तरकांडे रामगीता सम्पूर्ण ॥

Lord Hanuman 10 अचूक उपाय, ज्याने बजरंगबली प्रसन्न होतात, पैशाची कमतरता दूर होते, रोग आणि दुःख नष्ट होतात

Maruti Aarti मारुतीच्या आरत्या संपूर्ण मराठी

Akshaya Tritiya Upay हे 3 चमत्कारिक उपाय देवी लक्ष्मीला प्रसन्न करतील

आरती मंगळवारची

Akshaya Tritiya 2024 Daan अक्षय्य तृतीयेच्या दिवशी या 5 गोष्टींचे दान आयुष्यातील सर्व समस्या दूर करतील

जेवण बनवतांना गॅस सिलेंडर झाले लीक आग लागल्याने 4 जणांचा मृत्यू

'अनुपमा' अभिनेत्री रुपाली गांगुली भाजपमध्ये दाखल

महाराष्ट्र गीत : जय जय महाराष्ट्र माझा, गर्जा महाराष्ट्र माझा

मोदींकडून महाराष्ट्र दिनानिमित्त मराठीत शुभेच्छा!

टँकरच्या अपघातामुळे रस्त्यावर तेल सांडलेले पाहून मुख्यमंत्री शिंदे यांनी मदतीचा हात पुढे केला

Show comments