Dharma Sangrah

शिवभारत अध्याय पंधरावा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (16:40 IST)
कवीन्द्र उवाच
परैः पुरन्दरतटे मुसेखानं निपातितम् ।
प्रभूतं सैन्यमन्यच्च पराक्रम्य पराहतम् ॥१॥
फतेखानं च विमुखीकृतमंतिकमागतम् ।
निशम्य महमूदेन मुमुदे न दिवानिशम् ॥२॥
अथो विदूयमानोऽन्तः फतेखानस्य भङ्गतः ।
स्वे चेतसि चिरस्येत्थं महमूदो व्यचिन्तयत् ॥३॥
अहो अहर्दिवममी अस्माभिः परिपालिताः ।
क्षिण्वन्ति यवनानस्मान् क्शत्रियाः कालनोदिताः ॥४॥
समृद्धिमधिकाम लब्ध्वा दुर्मदात्मा मदाश्रयात् ।
साहसी शाहराजोऽयं मन्नियोगं न मन्यते ॥५॥
अनेन कोपनेनाद्धा विधायोद्धतमाहवम् ।
पुण्डरीकपुरोपान्ते विजितो रणदूलहः ॥६॥
अनेन मन्त्रकलया कलितो मलिकोऽम्बरः ।
निरर्गलेन निकृतः स चानेनार्गलेश्वरः ॥७॥
चिररात्राय पित्रेव येनायं परिपालितः ।
स निजामोऽप्यनेनोच्चैर्निकृतिस्थेन वञ्चितः ॥८॥
कार्णाटकाः क्षोणिभृतः परिहाय मदीयताम् ।
बतैतन्मन्त्रयोगेन प्रथमन्त्येतदीयताम् ॥९॥
मुहुराहूयमानोऽपि नायातोऽयमुपह्वरे ।
अपातयदयं ह्यस्मज्जयं संशयगह्वरे ॥१०॥
अनेनोपकृतः पूर्वमिभरामः पदे पदे ।
निवेशितोऽयं सन्तुष्य तेनाप्यत्युन्नते पदे ॥११॥
अनेन हेतुना ह्यस्य मन्तवः शतशो मया ।
अतिक्रान्ताध्वनोऽत्यर्थं क्षान्ता एव दिने दिने ॥१२॥
आगांसि सुगरीयांसि क्षन्तुं नैव क्षमोऽभवम् ।
तदानीं निग्रहायास्य मुस्तुफाखानमादिशम् ॥१३॥
अस्मिंस्तु निगृहीते‍ऽस्य सुतौ शम्भुशिवावुभौ ।
उन्नद्धीभूय युध्येते मन्निमज्जनलोलुभौ ॥१४॥
पित्रर्थे शम्भुना तत्र फरादः परिभावितः ।
सम्पराये शिवेनात्र फतेखानोऽपि यापितः ॥१५॥
अलं बलमहो शम्भोः किल येन यशस्विना ।
फरादस्तत्र भग्नो न भग्नं किन्त्वद्य मन्मनः ॥१६॥
शिवस्य यस्य हस्तेऽद्य धरौ सिंहपुरन्दरौ ।
सोहंकारं कथंकारं न करिष्यति मय्यरौ ॥१७॥
रणो यत्राजनिष्टायं भीषणो भीष्मपर्वतः ।
सुतरां दुर्ग्रहोऽस्माभिः स पुरन्दरपर्वतः ॥१८॥
बिंबरूरे पुरे शम्भुं शिवं चाद्रौ पुरन्दरे ।
न्यवेशयत शाहोऽयं किमस्मत्परिभूयते ॥१९॥
जनकः शम्भुशिवयोर्न मोक्तव्यो मया यदा ।
समृद्धायै श्रियेऽमुष्यै बत देयोऽञ्जलिस्तदा ॥२०॥
पृदाकुरिव निर्मुक्तो मोक्तव्योऽयं मया यदि ।
अपकारपरस्तर्हि किं मां नापकरिष्यति ॥२१॥
अयं मोक्तव्य इत्येको मोक्तव्यो नेति चापरः ।
मन्त्रयोरुभयोर्मन्ये प्रथमो मद्धितावहः ॥२२॥
सर्वथा जिह्मगस्यास्य रोषो मन्मन्त्रवैभवात् ।
अपकारपरस्यापि परयास्यत्यवकेशिताम् ॥२३॥
इमामुपकृतिं कृत्वा निधास्याम्यस्य मूर्धनि ।
न विस्मरिष्यति ह्येनां कुलीनोऽयं गुणाग्रणीः ॥२४॥
चिरं विचिन्त्य मनसा सुधीर्धीसचिवानिदम् ।
न्यगदद्येदिलो युक्तमित्यमन्यन्त तेऽप्यरम् ॥२५॥
अथ तं मङ्गलस्नानं निर्मलाम्बरभूषणम् ।
परिवेषविनिर्मुक्तं नवीनमिवपूषणम् ॥२६॥
उपह्वरे समानाय्य मानार्हमुपवेश्य च ।
अनुनीय च सोल्लासं महमूदोऽभ्यभाषत ॥२७॥
महमूद उवाच
मत्तो ह्यजानतो जातं तद्धि नो विद्धि जानतः ।
न जगत्त्यत्र दुर्ज्ञेयं राजंस्तव विजानतः ॥२८॥
विहितो मुस्तुफेनोच्चैर्द्वेषादफजलेन वा ।
तं मन्तुतन्तुं राजेन्द्र मदीयं मन्तुमर्हसि ॥२९॥
दिदृक्षुस्त्वामहं यस्मै यत्नानकरवं बहून् ।
बत मे सम्मदः सोऽ‍भूदस्तु वा मास्तु वा तव ॥३०॥
उक्तोऽसि मृदुभिर्वाक्यैः परिमुक्तोऽसि निग्रहात् ।
अभिजातोऽसि भूपाल मदभीष्टपरो भव ॥३१॥
एकामप्युपकारस्य कणिकां प्राप्य निर्वृताः ।
शतमप्यपकाराणां न स्मरन्ति महाव्रताः ॥३२॥
अणुनाप्यपकारेण परिश्रुभितमानसाः ।
उपकारसहस्राणि न स्मरन्त्यपचेतसः ॥३३॥
अपकारसहस्राणि करोत्वलमसज्जनः ।
उपकारसहस्राणि करोत्येव तु सज्जनः ॥३४॥
उपकारं परकृतं स्मरन्ति स्वकृतं न ये ।
त एव धारणावन्तः कृतज्ञाश्च सतां नये ॥३५॥
उपकारपरं लोकं प्रभुर्नोपकरोति यः ।
स्वप्नलब्धा इव सुधा समृद्धा अपि तच्छ्रियः ॥३६॥
शिक्षयस्व कनीयांसं तनयं गर्वपर्वतम् ।
महाराज मदीयं मे देहि तं सिंहपर्वतम् ॥३७॥
न हि मां मुञ्चतितमां सिंहशैलग्रहाग्रहः ।
मदीयेन नियोगेन शिवायास्तु पुरन्दरः ॥३८॥
करोतु मह्यं सोऽप्यद्धा बिंगरूरमुपायनम् ।
यद्भग्नेन फरादेन व्यधीयत पलायनम् ॥३९॥
नियुञ्जते नियोगार्हान् कार्यायार्याः क्षणे क्षणे ।
तन्न कुर्वन्ति ते तर्हि को हेतुः शीलरक्षणे ॥४०॥
प्रभुर्नियुंक्ते कार्यार्थी कार्यार्थी तं निषेवते ।
तयोरन्यतराकार्यान्न कार्यमुभयोरपि ॥४१॥
न सौहित्यं विना पानं विना प्राणं न विग्रहः ।
विराजते महाराज नानुयानं विना नुगः ॥४२॥
किं स्यादुक्तेन बहुना तवाहं त्वं ममाधुना ।
अन्योन्यमवलम्बो नौ लोकस्यास्यावलम्बनम् ॥४३॥
अल्पवर्णमयीमित्थमनल्पार्थगरीयसीम् ।
येदिलः शाहराजाय श्रावयामास भारतीम् ॥४४॥
यत्र यद्व्यञ्जयामास महमूदो वदावदः ।
शाहः स्वेन स्मितार्धेन तत्र तस्योत्तरं ददौ ॥४५॥
स तदानीं महाबुद्धिर्महमूदं मदोद्धतम् ।
तद्दुर्गद्वितयीदानप्रसंदानममन्यत ॥४६॥
अथ तस्य विमुक्तस्य सत्कृतस्य यथायथम् ।
येदिलः सदनद्वारि द्विरदाश्वमबन्धयत् ॥४७॥
स तदा जगदाह्लादतत्परः परसङ्कटात् ।
मुमुचेऽम्भोधरघटापटलादिव चन्द्रमाः ॥४८॥
बन्धुः सर्वस्य लोकस्य मुक्तस्तस्मात् स निग्रहात् ।
व्यराजततरां तत्र दिवाकर इव ग्रहात् ॥४९॥
मुक्तमात्रः स युक्तोऽभूदनीकेन महीयसा ।
दिदीपे जगती सर्वा तदीयेन सुतेजसा ॥५०॥
अथ शम्भुर्महाबाहुरनतिक्रमणीयया ।
बिंगरूरं पुरं सद्यस्तत्त्याज पितुराज्ञया ॥५१॥
समर्थोऽप्याहवं कर्तुमदेयमपि सर्वथा ।
शिवः सिह्माचलं प्रादात् पित्रर्थाय गरीयसे ॥५२॥
अथ निज इति मत्वा पूजयित्वा वचोभिः ।
पदि पदि विहिताभिः प्रीणयित्वोपदाभिः ।
उपचितबहुसेनः प्रेषितो येदिलेन ।
प्रतिभटविजयार्थं शाहराजः प्रतस्थे ॥५३॥
इत्यनुपुराणे कवीन्द्रपरमानन्दप्रकाशितायां संहितायां पञ्चदशोऽध्यायः ॥१५॥

संबंधित माहिती

सर्व पहा

नक्की वाचा

अधिक मासात मुलीने आईची ओटी का भरावी? जाणून घ्या धार्मिक कारण

Adhik Maas 2026 Upay अधिक मासात ३३ दिवे लावण्यामागील रहस्य: ३३ कोटी देवतांचा आशीर्वाद प्राप्त करा

तणाव व्यवस्थापन करण्यासाठी जीवनशैलीत हे बदल करा

इयत्ता ११वीत विज्ञान, वाणिज्य की कला तुमच्यासाठी कोणती शाखा सर्वोत्तम आहे जाणून घ्या

रेशमी साडी खरेदी करताना फसवणुकीला बळी पडू नका, अशी तपासा

सर्व पहा

नवीन

ओठ नैसर्गिकरित्या गुलाबी आणि मऊ बनवण्यासाठी घरगुती उपायांबद्दल जाणून घ्या

कडक उन्हात उसाचा रस ठरतो अमृत! जाणून घ्या त्याचे जबरदस्त फायदे

मुलांशी मैत्रीपूर्ण नाते कसे निर्माण कराल? जाणून घ्या या सोप्या Parenting Tips

अकबर-बिरबलची कहाणी : महागडा सुगंध

मुले पालकांच्या या सवयी आयुष्यभर विसरत नाहीत; प्रत्येक पालकाला त्या माहित असायला हव्यात

पुढील लेख
Show comments