लांगूलमृष्टवियदम्बुधिमध्यमार्गमुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥१॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥२॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः । प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै ॥३॥ ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् । लङ्कालकानिव घनानुदपाटयद्य- स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥४॥ घोषप्रतिध्वनितशैलगुहासहस्रसंभ्रान्तनादितवलन्मृगनाथयूथम् । अक्षक्षयक्षणविलक्षितराक्षसेन्द्रमिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥५॥ हेलाविलङ्घितमहार्णवमप्यमन्दं...