असित कृतं शिव स्तोत्रम् असित उवाच ॥ जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश...