श्रीपरमानन्दसेनकविकर्णपूरस्य कृतिरियम् । श्रीवृन्दावनभुवि पुरा सच्चिदानन्दसान्द्रो गौराङ्गीभिः सदृशरुचिभिः श्यामधामा ननर्त । तासां शश्वद्दृढतरपरीरम्भ सम्भेदतः किं गौराङ्गः सन्जयति स नवद्वीपमालम्भमानः ॥१॥ नमस्यामोऽस्यैव प्रियपरिजनान्वत्सलहृदः प्रभोरद्वैतादीनपि जगदघौघक्षयकृतः । समानप्रेमानः समगुणगणास्तुल्यकरुनाः स्वरूपाद्या येऽमी सरसमधुरास्तानपि नुमः ॥२॥ गुरुं नः श्रीनाथाभिधमवनिदेवान्वयविधुं नुमो भूषारत्नं भुव इव विभोरस्य दयितम् । यदा स्यादुन्मीलन्निरवकरवृन्दावनरहः कथास्वादं लब्ध्वा जगति...