उपमन्युकृतं शिवस्तोत्रम् जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा सकलेनेश...