Webdunia - Bharat's app for daily news and videos

Install App

श्रीरामकृष्णसुप्रभातम्

Webdunia
शनिवार, 13 एप्रिल 2024 (03:32 IST)
धर्मस्य हानिमभितः परिदृश्य शीघ्रं
कामारपुष्कर इति प्रथिते समृद्धे ।
ग्रामे सुविप्रसदने ह्यभिजात देव
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१॥
बाल्ये समाध्यनुभवः सितपक्षिपङ्क्तिं
मेघपटले समवापि येन ।
ईशैक्यवेदनसुखं शिवरात्रिकाले
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥२॥
नानाविधानयि सनातनधर्ममार्गान्
क्रैस्तादिचित्रनियमान् परदेशधर्मान् ।
आस्थाय चैक्यमनयोरनुभूतवांस्त्वं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥३॥
हे कालिकापदसरोरुहकृष्णभृङ्ग
मातुः समस्तजगतामपि सारदायाः ।
ऐक्यं ह्यदर्शि तरसा परमं त्वयैव
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥४॥
राखालतारकहरींश्चनरेन्द्रनाथं
अन्यान् विशुद्धमनसः शशिभूषणादीन् ।
सर्वज्ञ आत्मवयुनं त्वमिहानुशास्सि
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥५॥
नित्यं समाधिजसुखं निजबोधरूपं
आस्वादयन् तव पदे शरणागतांश्च ।
आनन्दयन् प्रशमयन्नुपतिष्ठसे त्वं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥६॥
स्वीकृत्य पापमखिलं शरणागतैर्यद्
आजीवनं बहुकृतं दयया स्वदेहे ।
तज्जातखेदनिवहं सहसे स्म नाथ
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥७॥
प्रातः प्रणामकरणं तव पादपद्मे
संसारदुःखहरणं सुलभं करोति ।
मत्वेति भक्तिभरिताः प्रतिपालयन्ति
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥८॥
गातुं स्तुतीस्तव जना अमृतायमानाः
सम्प्राप्य दर्शनमिदं तव पादयोश्च ।
धन्या नरेश भवितुं मिलिताः समीपं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥९॥
सन्दाय दर्शनसुखं शरणागतेभ्यो
मोहान्धकारमखिलं त्वमपाकुरुष्व ।
ज्ञानार्क भक्तिजलधे सकलार्तिहन्तः
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१०॥
अहैतुकीति करुणा किल ते स्वभावो
दुष्टाः कठोरहृदया अपि ते भजन्ते ।
त्वामेव सर्वजगतां जननि प्रपात्रि
श्रीसारदेश्वरि रमे तव सुप्रभातम् ॥११॥
सुप्तांस्तु भारतजनान् स्ववचः प्रहारै-
रुद्बोधयन् विवशयन् निजधर्ममार्गे ।
प्रोत्साहयन् परमतां प्रकटीकरोषि
वीरेशदत्तमहिमन् तव सुप्रभातम् ॥१२॥
प्रातरुत्थाय यो देवं रामकृष्णं स्मरन् स्मरन् ।
स्तोत्रमेतत्पठेद्भक्त्या सोऽमृतत्वाय कल्पते ॥१३॥

संबंधित माहिती

शनिवारची आरती

माहुरगडावरी देवीची आरती Mahur Gadavari Aarti

शनि साडेसाती चिंतन कथा

शुक्रवारी कोणत्या मंत्राचा जप करावा?

महाराष्ट्र दर्शन : आदिशक्ती एकविरा आई

पंढरपूरच्या विठुमाऊलीचे पदस्पर्श दर्शन येत्या 2 जूनपासून सुरु

Lok Sabha Elections 2024: पंतप्रधान मोदींनी पुरुलियामध्ये इंडिया आघाडीवर टीका केली, म्हणाले

आग्रा येथील तीन बूट व्यावसायिकांवर आयकर विभागाचा छापा,नोटा मोजताना मशीन थकली

आम आदमी पार्टीला चिरडण्याचा प्रयत्न करत आहे म्हणत केजरीवालांचा भाजपवर हल्लाबोल

गुरु -शिष्याच्या नात्याला तडा, कुस्तीकोच ने केला अल्पवयीन विद्यार्थिनीचा विनयभंग

पुढील लेख
Show comments