महिम्न: पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: । अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।। अतीत: पन्थानं तव च महिमा वाड्मनसयो रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय: पदे त्वर्वाचीने पतति न मन: कस्य न वच: ।।2।। मधुस्फीता वाच: परमममृतं...