Marathi Biodata Maker

शिवभारत अध्याय आठवा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (15:52 IST)
मनीषिण ऊचुः ।
शिवनेरीगिरौ जातः शिवराज इति त्वया ।
परमानन्द संप्रोक्तमस्ति नस्तत्र संशयः ॥१॥
स हि शैलो निजामस्य प्रियकारी महायशाः ।
प्रतापी प्रथितो लोके धारागिरिरिवापरः ॥२॥
अभूदागमनं तत्र यथा शाहमहीपतेः ।
तथा कथय नः सर्वं भट्टगोविंदनन्दन ॥३॥
कवीन्द्र उवाच ।
सुधामिवातिमाधुर्यवतीं पुण्यवतीमिमाम् ।
कथां शाहनरेन्द्रस्य श्रृणुत द्विजसत्तमाः ॥४॥
अस्तंगतेऽम्बरमणिप्रतापे बर्बरेऽम्बरे ।
निर्मन्त्रिणि निजामे च स्थितिसंजातसंशये ॥५॥
दिवंगते दैवयोगादिभरामेऽ‍नुभाविनि ।
तत्सुते महमूदे च दृप्ते तत्पदवर्तिनि ॥६॥
सैन्ये साहिजहानस्य दिल्लीन्द्रत्वमुपेयुषः ।
दक्षिणां दिशमादातुमवलेपादुपागते ॥७॥
प्रतनेनानुबंधेन निजामोपचिकीर्षया ।
शाहराजो महाबाहुर्विजयाह्वं पुरं जहौ ॥८॥
अथ यादवराजोऽपि हित्वा ताम्रानुयायिताम् ।
पक्षपाती निजामस्य धारगिरिमुपागम् ॥९॥
अत्रान्तरे निजामस्य भृशं विश्रंभभाजनम् ।
वंश्यो विश्वासराजस्य शिवभक्तो महाव्रतः ॥१०॥
तनयः सिद्धपालस्य सुप्रसिद्ध्योऽतिवैभवः ।
शिवनेरिगिरिस्थायी नृपतिर्विजयाह्वयः ॥११॥
वराय शम्भुराजाय शाहराजसुताय वै ।
जयन्तीमात्मतनयामनुरूपाममन्यत ॥१२॥
शाहराजोऽपि संबंधं तं सुश्लाघ्यतमं भुवि ।
संविचिन्त्य स्नुषात्वेन जयन्तीं तमयाचत ॥१३॥
ततो विजयराजस्य शाहराजस्य चोभयोः ।
अभूद्यथोक्तसंबंधसुप्रयुक्तो महोत्सवः ॥१४॥
विश्वासराजवंश्यानां भूपानां भूरितेजसाम् ।
तथा भृशबलानां च समवायो महानभूत् ॥१५॥
स तयोः श्लाघ्यगुणयोर्जयन्तीशंभुराजयोः ।
शिवनेरिगिरावासीत्पाणिग्रहमहो महान् ॥१६॥
अथो कतिपयाहोभिस्तं समाप्य महोत्सवम् ।
तस्यैवच गिरेर्मूर्ध्नि स्वजनेन समन्विताम् ॥१७॥
संबंध्यनुमतः पत्नीमन्तर्वत्नीं निधाय ताम् ।
प्रतस्थे शाहनृपतिर्दर्याखानजिगीषया ॥१८॥
शिवनेरिगिरौ ह्यासीच्छाहस्यागमनं यथा ।
तथा कथितवानस्मि किमथ श्रोतुमिच्छथ ॥१९॥
मनीषिण ऊचुः ।
सद्यो दिल्लीश्वरं हित्वा पक्षपातिन्युपागते ।
महाव्रते महाराजे यदुराजे महाभुजे ॥२०॥
अभिक्रमपरैस्ताम्रमुखैर्योर्द्धुं समुद्यते ।
अभीप्समानः स्वाभीष्टं निजामः किमचेष्टत ॥२१॥
कवीन्द्र उवाच ।
अथ दैवान्निजामस्य विषयाविष्टचेतसः ।
हन्त दुर्मन्त्रिणो योगाज्जज्ञे मतिविपर्ययः ॥२२॥
तस्य मत्तस्य सविधे ययौ साधुरसाधुताम् ।
प्रियवादपरोऽत्यर्थमसाधुरपि साधुताम् ॥२३॥
विपरीतदृशा तेन गुरवोऽपि लघूकृताः ।
गुणोपेताश्च गुरवो नीताः शीघ्रमगौरवम ॥२४॥
अव्यवस्थितचित्तस्य मत्तस्य मधुनान्वहम् ।
अवद्यवादिनस्तस्य बत राष्ट्रमहीयत ॥२५॥
अथ प्रणंतुमायातमतीवप्रतिभान्वितम् ।
निजामो यादवाधीशमवमेने सुदुर्मतिः ॥२६॥
अवज्ञातो निजामेन महामांनी महामनाः ।
यदुराजस्तदा वीररसावेशवशोऽभवत् ॥२७॥
अथ सेनाधिपतयो हमीदाद्यास्सुदुर्मदाः ।
दुर्मन्त्रिते निजामेन पूर्वमेव प्रबोधिताः ॥२८॥
साभिमानं परावर्तमानं मत्तमिव द्विपम् ।
आस्थानीतोरणोपान्ते रुरुधुर्यादवेश्वरम् ॥२९॥
स तत्र बहुभिर्युध्यन् सपुत्रामात्यबान्धवः ।
प्रत्युद्यातः सुरगणैः सुरलोकमलोकत ॥३०॥
यथा मेरोर्विपर्यासः पातो भानुमतो यथा ।
यथा ह्यन्तः कृतान्तस्य दाहं पत्युरपां यथा ॥३१॥
तथा यादवराजस्य तदा यत्र वतात्ययः ।
सप्तानामपिलोकानामभूदल्पहितावहः ॥३२॥
तदवस्थमथ श्रुत्वा श्वशुरं यादवेश्वरम् ।
शाहो निजामसाहाय्याद्विरराम महायशः ॥३३॥
अथ तापीतटात्तूर्णमेत्य ताम्रपताकिनी ।
अधिष्ठितं निजामेन धारागिरिमवेष्टयत् ॥३४॥
समुह्य स्वां महामानी तदानीमेव येदिलः ।
पृतनां प्रेषयामास लुब्धो धारागिरिं प्रति ॥३५॥
सैन्यं साहिजहानस्य महमूदस्य चान्वहम् ।
अयुध्येतां मिथस्तत्र धारागिरिजिघृक्षया ॥३६॥
स्वयं निजामशाहोऽपि धारागिरिशिरस्थितः ।
तदा ताभ्यामपि द्वाभ्यामनीकाभ्यामयुध्यत ॥३७॥
ततोऽतिबलिभिस्ताम्रबलैर्युध्याद्भिरंजसा ।
महमूदस्य चानीकैर्निजामः पर्यभूयत ॥३८॥
ततः स तेन शैलेन सिअन्येन विविधेन च ।
यथाजातेन च तथा फतेखानेन मन्त्रिणा ॥३९॥
परिग्रहेण सर्वेण कोषेण च महीयसा ।
ममज्ज सहितस्तत्र ताम्राननबलार्णवे ॥४०॥
मनीषिण ऊचुः ।
यस्याशीतिसहस्राणि तुरगाणां तरस्विनाम् ।
अशीतिरद्रिदुर्गाणां चतुर्भिरधिका पुनः ॥४१॥
स्थले जले च यस्यासन् बत दुर्गान्य़नेकशः ।
समृद्धो विषयो यस्य वशे विद्वेषि दुर्गहः ॥४२॥
येन येदिलशाहस्य दिल्लीन्द्रस्य च मानिनः ।
पदे पदे बलं सर्वं जीवग्राहं व्यसृज्यत ॥४३॥
यस्याकस्मिकझंपस्य श्येनस्येवोत्पतिष्यतः ।
प्रभावेण न्यलीयन्त परिपंथिविहंगमाः ॥४४॥
स निजामस्तदा येन हेतुना विलयं गतः ।
शुश्रूषमाणान् नः सर्वान् कवीन्द्र तमुदीरय ॥४५॥
कवीन्द्र उवाच ।
समस्तपालनपरे पितर्युपरतेऽम्बरे ।
भवितव्यानुसारेण फत्तेखानोऽल्पचेतनः ॥४६॥
अमात्यतां निजामस्य प्रतिपद्य प्रतापवान् ।
तापयामास जनतां कृतान्त इव निष्क्रुपः ॥४७॥
निजामस्तस्य मन्त्रेण हमीदस्य च दुर्मतेः ।
यदाप्रभृति राजन्यं यदुराजं न्यघातयत् ॥४८॥
शाहराजप्रभृतयः तदाप्रभृति भूभृतः ।
सर्वे विमनसो भूत्वा म्लेच्छाश्च पृतनाभृतः ॥४९॥
अविश्रंभादमर्षाच्च साध्वसाच समाकुलाः ।
शिश्रियुर्येदिलं केऽपि केऽपि दिल्लीन्द्रमश्रयन् ॥५०॥
केचिच्च क्रूरमनसो विरुद्धत्वमुपाचरन् ।
तटस्थमिव चात्मानं बत केचिददर्शयन् ॥५१॥
तेन तेन तदा तस्य दुर्नयेन दुरात्मनः ।
अवृष्टिरजनिशःतोच्चैरनिष्टाय शरीरिणाम् ॥५२॥
चिरस्य विषये तस्य न ववर्ष वृषा यदा ।
सस्यं सुदुर्लभमभूत्स्वर्णं तु सुलभं तदा ॥५३॥
प्रस्थमात्राणि रत्नानि विनिमय्य धनीजनः ।
कथंचन समादत्त कुलत्थान्प्रस्थसंमितान् ॥५४॥
आहाराभावतोऽत्यर्थं हाहाभूताः परस्परम् ।
पशून्वै पशवो जक्षुर्मानुषा अपि मानुषान् ॥५५॥
तेनावर्षेण महता परचक्रागमेन च ।
अभावेन च मौलानामनीकस्य च भूयसः ॥५६॥
अनुक्षणं क्षीयमाणस्ताम्रास्यैरनुभाविभिः ।
धृतो धारागिरिपतिः फत्तेखानश्च दुर्मतिः ॥५७॥
अनुकूलेन कालेन सर्वं धत्तेऽनुकूलताम् ।
प्रतिकूलेन तेनैव सकलं प्रतिकूलताम् ॥५८॥
यस्यानुकूलो भगवान् काल एष सनातनः ।
अनायासेन सिध्यंति तस्य कार्याणि देहिनः ॥५९॥
जनिस्सत्ता च वृद्धिश्च विपाकोऽपचयोऽपि च ।
क्षयश्च षडमी भावाः विकाराः कालनिर्मिताः ॥६०॥
जयः पराजयो वापि वैरं मन्त्रिबलाबले ।
सविद्यत्वमविद्यत्वमुदारत्वं कदर्यता ॥६१॥
प्रवृत्तिश्च निवृत्तिश्च स्वातन्त्र्यं परतन्त्रता ।
समृद्धिरसमृद्धिश्च जायन्ते कालपर्ययात् ॥६२॥
मृत्युर्जन्मवयश्चापि तिस्रोऽवस्थाश्च तस्य ताः ।
कालादेवप्रवर्तन्ते तथा यज्ञादिकाः क्रियाः ॥६३॥
न कालेन विना बीजं न कालेन विनांकुरः ।
पुष्पं न कालेन विना फलम् ॥६४॥
तीर्थं न कालेन विना तपः ।
सिद्धिः न कालेन विना जयः ॥६५॥
भान्ति शशांकशुचिभास्कराः ।
वृद्धिमवृद्धिं चैति सागरः ॥६६॥
गंगामाजहार भगीरथः ।
कार्कलास्यान्मुक्तो नृगो नृपः ॥६७॥
रामो निजघान दशाननम् ।
लंकां प्रतिपेदे बिभीषणः ॥६८॥
कृष्णो गोर्वधनमदीधरत् ।
पार्थों वैकर्तनमजीघतत् ॥६९॥
सुखानामसुखानां च काल एव हि कारणम् ।
कालमेवेश्वरं मन्ये सर्गस्थित्यन्तकारिणम् ॥७०॥
संगरे भंगमासाद्य निजामो विलयं गतः ।
लब्ध्वा दैवगिरिं दैत्यो दिल्लीन्द्रो मुदमागतः ॥७१॥
तथा येदिलशाहोऽपि सैन्यभंगात् विलज्जितः ।
तदेतदखिलं कालाज्जात जानीत भो द्विजाः ॥७२॥
निरुध्य धारागिरि दुर्गमुग्रम् ।
ताम्राननैस्तत्र धृते निजामे ।
गताभिमाना विहितापयाना ।
बभूष सेना किल येदिलस्य ॥७३॥
इत्यनुपुराणे कवीन्द्रपरमानंदविरचितेऽ‍ष्टमोऽध्यायः ॥

संबंधित माहिती

सर्व पहा

नक्की वाचा

Chhatrapati Sambhaji Maharaj Jayanti 2026 Speech in Marathi धर्मवीर छत्रपती संभाजी महाराज जयंती भाषण

शरीराला उर्जावान ठेवण्यासाठी, दररोज या योगांचा सराव करा

पंचतंत्र : मूर्खांचा समूह

घरात भाजी नसेल तर पटकन बनवा साधी सोपी व झटपट होणारी कुरडईची भाजी : मराठमोळी चव!

Vastu Tips झोपण्याची योग्य दिशा तुमचे नशीब बदलू शकते

सर्व पहा

नवीन

Shani Jayanti 2026 शनिदेवाला प्रसन्न करण्यासाठी प्रिय विशेष नैवेद्य

'बोटं चाटून खातील' अशी चविष्ट मसाला गिलक्याची भाजी नक्की ट्राय करा

केसातील उवा काढण्यासाठी हे घरगुती उपाय अवलंबवा

मासिक पाळीत तीव्र वेदना झाल्यास काय करावे, वेदना थांबवण्याचे उपाय जाणून घ्या

Career in Dploma in Dental hygiene after class 12th : 12 वी नंतर डेंटल हाइजीन मध्ये करिअर बनवा पात्रता जाणून घ्या

पुढील लेख
Show comments