अनसूयात्रिसंभूत दत्तात्रेय महामते । सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ।। शरणागतदीनार्थतारकाsखिलकारक । सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ।। सर्वमंगलमांगल्य सर्वाधिव्याधिभेषज । सर्वसंकटहारिन् त्वं मम चित्तं स्थिरीकुरु ।। स्मर्तुगामी स्वभक्तानां कामदो रिपुनाशनः । भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरू ।। सर्वपापक्षयकरस्तापदैन्यनिवारणः । योsभिष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ।।...